पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५९
त्रयोदशः सर्गः


 शक्र इति ॥ सा भगवती सरस्वती भूयः पुनरपि वचसः स्त्र वाङ्मालामसृजत् । किं कृत्वा तत्र तेषु मध्येऽस्यां भैमीसमीपे पवनस्य सखायमग्निं निर्दिश्योद्दिश्य । पुनः किं कृत्वा-भैमीमिति दोलायमानं मनो यस्यास्तां परिभाव्य संचिन्त्य । इति किम्- एष किं शक्रः, स दूत्यदृष्टः निषधाधिपतिः नलो वेति । दोला इवाचरति 'कर्तुः क्यङ् सलोपश्च' इति क्यङि शानचि दोलायमानमिति । अस्यां सामीपिक आधारः ॥

एष प्रतापनिधिरुद्गतिमान्सदाऽयं
 किं नाम नार्जितमनेन धनंजयेन ।
हेम प्रभूतमधिगच्छ शुचेरमुष्मा-
 नास्येव कस्यचन भास्वररूपसंपत ॥१०॥

 एष इति ॥ हे भैमि, एष प्रतापस्य निधिः प्रकृष्टोष्णस्पर्शस्थानम् । तथा--अयं सदा उद्गतिमानूर्ध्वगमनयुक्तः । ऊर्ध्वज्वलनोऽयमित्यर्थः । धनंजयेन वह्निनानेन किं नाम का संज्ञा नार्जितं न प्राप्ता । 'अग्निर्वैश्वानरो वह्निः-' इत्यादिकं नाम निर्वचनयोगात् प्राप्तमित्यर्थः । सर्वेषां नाम्नां निर्वचनमस्त्येव । नाम संभावनायाम् । अग्निनाऽनेन किं नाम वस्तु न प्राप्तम् । तैजसानां परमाणूनां सर्वत्राविरलत्वेन विद्यमानत्वादिति वा । अनेन धनंजयशब्देन कृत्वा सार्थकं नाम किं न अर्जितमिति वा । धनंजयत्वादेव शुचेरप्पित्तादमुष्मादग्नेः प्रभूतं हेम स्वर्णमधिगच्छ प्राप्नुहि । धनमिच्छेद्धुताशनात्' इत्युक्तेः । 'अग्नेरपत्यं प्रथमं हिरण्यम्' इति श्रुतेरस्मात्सुवर्णमुत्पन्नम् । अस्येवाग्नेरिव कस्यचन कस्यापि भास्वरा देदीप्यमाना रूपसंपन्नास्ति । तेजोमात्रविवक्षया । तेजोव्यतिरिक्तस्य कस्यचन शुक्लं भास्वरं रूपं न दृष्टमित्यर्थः॥

 नलपक्षे-एष नलः क्षात्रतेजःस्थानम् । तथा-सदा उदयवान् । तथा अनेन जयेन कृत्वा किं नाम धनं नार्जितम् । वैरिणो विजित्य धनमर्जितम् । सदा अयः शुभावहो विधिर्यस्मादिति वा । शुचेः स्वधर्मोपार्जितद्रव्यामुष्मात्प्रचुरं सुवर्णं प्रामुहि । शुचे: शृङ्गाररूपादिति वा । अस्य नलस्येव भास्वरा कायकान्तिसमृद्धिः कस्यापि अन्यस्य नास्ति । भा दीप्तिः, स्वरः कण्ठशब्दः, रूपं सौन्दर्यं तेषां संपद अस्येव कस्यापि नास्तीति वा । तेजस्वी मधुरस्वरः सुन्दरश्चेत्युक्तम् । 'वीतिहोत्रो धनंजयः' 'शुचिरप्पित्तम्' इत्यमरः धनंजयः 'संज्ञायां भृतृवृजि-' इति खच् । 'अरुर्द्विष-' इति मुम् । भास्वरः 'स्थेशभास-' इति वरच् ॥

अत्यर्थहेतिपटुताकवलीभवत्त-
 त्तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः ।
अप्यङ्गरागजननाय महेश्वरस्य
 संजायते रुचिरकर्णि तपस्विनोऽपि ॥ ११॥