पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
नैषधीयचरिते

भाषाया मूलमिति ज्ञेयम् । गत्यन्तरं वा गवेषणीयम् । पदेति 'पदन्नो-' इति पदादेशः । एककेनेति 'एकादाकिनिच्चा-' इति चकारात्कन् ॥

चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धतयैव सैन्धवाः ।
विहारदेशं तमवाप्य मण्डलीमकारयन्भूरितुरंगमानपि ॥ ७१ ॥

 चमूचरा इति ॥ तस्य नृपस्य चमूचराः सेनाचराः सादिनोऽश्ववारास्तं पूर्वोक्तं विहारदेशं बाह्यलीलाप्रदेशमवाप्य प्राप्य भूरितुरंगमानपि बहूनश्वानपि मण्डलीं मण्डलाकारेण गतिविशेषमकारयन् ।अपिशब्दात्तन्मण्डलीकरणवशात्स्वयमपि कृतवन्त इत्यर्थः। के इव-जिनोक्तिषु बौद्धवचनेषु श्राद्धतयास्तिकतया सैन्धवा इव सिन्धुदेशोद्भवा जिना इव । विहारदेशं सुगतालयं प्राप्य यथा जिना मण्डलाकारेणावतिष्ठन्ते, तथेत्यर्थः । तेषामयं संप्रदायः। तण्डुलादिसप्तधान्यमयीं मण्डलीं कारयन्तीति तत्संप्रदायविदः। चमूचरा इति 'चरेष्टः' । श्राद्ध इति मत्वर्थे 'प्रज्ञा-' इति णः। मण्डलीमिति गौरादित्वान्ङीष् । तुरंगमानिति 'हकोः-' इति कर्मत्वम् ॥

द्विषद्भिरेवास्य विलङ्गिता दिशो यशोभिरेवाब्धिरकारि गोष्पदम् ।
इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरंगमैः स्थली ७२

 द्विषद्भिरिति ॥ तुरंगमैरश्वैरितीव हेतोः, विचार्य वा धारामास्कन्दितादिपञ्चप्रकारां गतिमवधीर्य त्यक्त्वावज्ञाय मण्डलीक्रियाश्रिया मण्डलीकरणजनितशोभया स्थली अकृत्रिमा भूमिः, अमण्ड्यभूषि । अश्ववारा धाराभिः प्रथममश्वान्नमयन्ति, पश्चाद्भूमिगत्या इति तेषां जातिः । इतीति किम्-अस्य द्विषद्भिरेव दिशो भयेन विलचिता आक्रान्ताः, अस्य यशोभिरेव कीर्तिभिरेवाब्धिः समुद्रो गोष्पदं गोखुरप्रमाणोऽनायासेन लङ्घ्य एवंविधोऽकारि कृतः। ऋजुगत्यास्माभिर्दिगन्तः समुद्रश्च लङ्घनीयः। तयोर्लङ्घनमन्यैरेव कृतमिति तत्रैव भ्रमिं चक्रुरित्यर्थः । 'आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् । गतयोऽभूः पञ्च धाराः' इत्यमरः । गोष्पदमिति 'गोष्पदं सेवितासेवितप्रमाणेषु' इति सुट्षत्वे । धारामिति धार्यन्ते गतौ स्थाप्यन्तेऽनयेति धारा । भिदादित्वादङ् । जातावेकवचनम् । स्थलीति । अकृत्रिमत्वे 'जानपद-' इति ङीष् । अवधीर्येति 'अवधीर् अत्यवज्ञायाम् (?)' इति धातो रूपं न, तस्य ल्यबादेशासंभवात् । किंत्ववाधिपूर्वस्य 'ईर प्रेरणे' इत्यस्य । अवधीत्यत्र शकन्ध्वादित्वात्पररूपम् । ततश्चावधीर्य इति सिद्धम् ॥


१ अत एव मनोरमायां दीक्षितैः--'कथं तर्हि हरेर्यदक्रामि पदैककेन खम्' इति श्रीहर्षः । प्रमाद एवायम् । यदि समाधेयमेव इत्याग्रहः, तर्हि निवृत्तप्रेषणात्प्राकृतेऽर्थे णिचि ततश्चिण् बोध्यः' इत्युक्तम् । तथा च णिज्निमित्तिकात्र वृद्धिः । न च तत्राप्यमन्तत्वेन मित्त्वेन ह्रस्वापत्तिः । 'मितां ह्रस्वः' इत्यत्र 'वा चित्तविरागे' इत्यतो वा इत्यस्यानुवृत्तौ व्यवस्थितविभाषाश्रयणेन ह्रस्वाप्रवृत्तेः । इति तेषामाशयः । सुखावबोधायां तु 'आक्रामि' इति पाठमङ्गीकृत्य क्रमणं क्रमः, क्रम एव क्रामः, प्रज्ञाद्यणन्तस्याङा समासे 'अत इनिः-' इतीनिप्रत्ययान्तं आक्रामि इति खम् इत्येतद्विशेषणं सुबन्तमिति व्याख्येयम्' इत्युक्तम् । २ ‘अत्र प्रतीयमानोत्प्रेक्षा श्लेषश्चालंकारः' इति साहित्यविद्याधरी । ३ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । ४ 'अत्रोत्प्रेक्षाऽतिशयोक्तिश्चालंकारः' इति साहित्यविद्याधरी ।