देव्याः करे वरणमाल्यमथार्पये वा |
देव्या इति ॥ अथवा इह स्वयंवरे एतेषु पञ्चसु मध्ये वा यो वैरसेनिः सत्यनलः तं त्वं तावज्जानासि अतस्तत्र एतां मालां निवेशय निक्षिपेत्युक्त्वा देव्याः सरस्वत्याः करे वरणमाल्यं वरणमधूकमालामर्पये ददामीति संभावना । स्वयमेवैतद्दूषयति-एवं क्रियमाणे सा एषा देवी मया मखभुजां देवानामिन्द्रादीनां द्विषती वैरिणी कृता स्यात् । तन्मायाप्रकटनादित्यर्थः। भवतु नाम सा तद्वैरिणी स्वकार्यसिद्धिस्तु साध्येत्यत आह- तु पुनः तृणतुल्यायातिनिःसाराय स्वस्मै स्वरूपाय अकिंचित्करात्मकार्यसिद्धये बन्धुरत्नं सुहृन्मध्येऽतिश्रेष्ठां देवीं न विहन्मि । मम यत्किंचिद्भवतु, परं तु देवद्वेषरूपं मित्रविघातं न करोमीत्यर्थः । अन्योऽपि सुज्ञस्तृणार्थं रत्नं न विनाशयति । द्विषती, 'द्विषोऽमित्रे' इति शतरि उगित्त्वान्ङीप् । मखभुजां, 'द्विषः शतुर्वा' इति षष्ठी ॥
यः स्यादमीषु परमार्थनलः स माला- |
य इति ॥ अमीषु पञ्चसु भवत्सु मध्ये यः परमार्थनलः सत्यनलः स्यात् स मम वरणाय मालामङ्गीकरोत्वित्येवं प्रकारेण इत्युक्त्वा चेति वा । यदि एनां च माला तत्र तेषु मध्ये तं सत्यनलं प्रापयामि, तत्पुनर्लज्जां विसृज्य कथं कुर्वे । अपित्वेवं कर्तुमयुक्तम् । यतः-जगति सर्वस्मिन्सभाजने शृण्वति सति ही कष्टं विडम्बः । लज्जात्यागादतिपरिहासो भविष्यतीति शेषः । सर्वेषां समक्षमेवं वचने लजात्यागात्सर्वेऽप्युपहसिष्यन्तीत्यर्थः । ही इति खेदे । हिर्यस्मादर्थे, इः खेदे इति वा । इति चेति समुदायः प्रकारे। यदि चेति वा (?)॥
इतरनलतु[१]लाभागेष शेषः सुधाभिः |
- ↑ 'तुलायामेष' इति सुखावबोधासंमतः पाठः !