पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्दशः सर्गः।

त्वभवे विवाहे तस्य प्रातिकूल्याद्धेतोः प्रवरं पुरश्चकार । समानप्रवरत्वेनापि विवाहनिषेधादित्यर्थः । नान्नोराद्यक्षरयो राशिकूटसूचकयोर्गणनायां पडष्टकाद्यसद्राशिकूटादिव गोत्रशत्रुरित्यादि ज्योतिःशास्त्रादूह्यम् । प्रवरमिन्द्रमित्रम् ॥

स्वकामसंमो[१]हमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः ।
उद्गत्वरीभिश्छुरितं वितेने निजं वपुर्वायुसखः शिखाभिः ॥६३ ॥

स्वकामेति ॥ वायुसखोऽग्निः निजवपुरुद्गत्वरीभिरुदित्वरीभिः शिखाक्षिर्ज्वालाक्षिः छुरितं वितेने व्याप्तं चकार । भैम्यभिलाषं परित्यज्य पुनरपि ज्वालाव्याप्तं शरीरमङ्गीचकारेत्यर्थः । किं कुर्वन्निव-दीपिकाभिर्वस्त्राग्निज्वलितशिखाभिः स्वस्य कामेन संमोहोऽविवेकरूपस्तल्लक्षणो महान्धकारस्तस्य निर्वापं शान्तिमिच्छन्निव । उद्गत्वरीभिः, 'गत्वरश्च' इति क्करबन्तात् 'टिड्ढा-' इति ङीप् ॥

पत्यौ वृते भीमजया न वूहावूहा स्वमूहाय निजूह्नुवे यः ।
जनादपत्रप्य स हा सहायस्तस्य प्रकाशोभवदप्रकाशः॥ ६४ ॥

पत्याविति ॥ यः प्रकाशः पूर्व वह्नेरलीकनलत्वाङ्गीकारसमये स्वमात्मानमह्नाय शीघ्रं निजुह्नुवे गोपितवान्स तस्य वह्नः सहायः सखा प्रकाशो दीप्तिः सद्योऽह्ना दिवसेन हेतुनाऽप्रकाशोऽप्रकटोऽभवत् । प्रकटीभूतोऽपि सूर्यप्रभाच्छादितत्वादप्रकटो जात इत्यर्थः । हा कष्टम् । पत्यौ स्वस्वामिनि वह्नौ भीमजया न वृते सति जनाल्लोकादपत्रप्य लज्जित्वैव प्रकटो नाभूदिति लुप्तोत्प्रेक्षा । अन्योपि स्वस्वामिनोपकर्षे लज्जया निलीयते । ज्वालास्वङ्गीकृतास्वपि रात्रिवत्प्रकाशाक्षावाद्वह्निर्निष्प्रभ एवाभूदिति भावः ॥

सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायमधत्त कालः।
तत्कालमन्तःकरणं नृपाणामध्यासितुं कोप इवोपनम्रः॥६५॥

सदण्डमिति ॥ कालो यमः सदण्डं लोहयष्ट्य सह वर्तमानमलक्तकेन रक्तं वस्त्रमालक्तकं तद्वदारक्ते नेत्रे ताभ्यां चण्डमतिभयंकरम्, तथा-तमःकिरमन्धकारमुन्द्रिरन्तं । कालत्वात् । यद्वा-स्वीयश्यामत्वातिशयेन तमसो विक्षेपकम् । एवंविधं कायं देहमधत्त प्रकटितवानित्यर्थः । उत्प्रेक्षते-तत्कालं तस्मिन्नलवरणानन्तरसमये नृपाणामन्तःकरणमध्यासितुमधिष्ठातुमुपनम्र आसन्नीभूतः कालः श्यामः कोप इव । मूर्तः कोप एव राज्ञां प्रकटो जात इति भावः। कुपितोप्येवंविधो भवति । आलक्तके, 'तेन रक्तं रागात्' इत्यण् । तमःकिरम्, 'इगुपध-' इति कः । अन्तःकरणम्, 'अधिशीङ्-' इति कर्मत्वम् ॥

दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः ।
ऊर्ध्वं तु पत्रस्य मषीद एको मषेर्ददच्चोपरि पत्रमन्यः ॥ ६६ ॥


  1. 'महान्धकारं निर्वापयिष्यन्निव' इत्यपि पाठः ।