पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१९
चतुर्दशः सर्गः।

तदन्तमन्त्र म स्मरहरमयं सेन्दुममल
 निराकारं शश्वज्जप नरपते सिध्यतु सते॥८८॥

 अवामेति ॥ शश्वज्जपो यस्य तत्संबोधनं तादृश भो नरपते नल, मे मन्त्रं गोप्यं मदीयरहस्यभूतं सेन्दुममिन्दोर्मा चन्द्रकान्तिस्तत्सहितम् । ईशभागे-चन्द्रकान्त्या युतं चन्द्रकलोपेतम् । पार्वतीभागे-भूषणीभूतार्धचन्द्रयुतम् । उक्तरीत्या निश्चित आकारः स्वरूपं यस्य । यद्वा-ईहामात्रेण साकारम् , विचारे क्रियमाणे अविद्यमानाकारम् । तथा-स्मरमयं कामतत्त्वरूपम् , हरमयं शिवतत्त्वरूपं क्रमेण भुक्तिमुक्तिदायि एवंभूतं तद्रूपमन्तःकरणे सते साधवे । अर्थात्तुभ्यम् । यद्वा हे नरप, (स)ते साधवे ते तुभ्यम् । अलमत्यर्थे सिध्यतु। समाधिदशायां साक्षाद्भवत्वित्यर्थः । मे तद्रूपमिति वा । मे मम प्रसादादिति शेष इति वा । स्त्रीणां कामप्रधानत्वात्स्मरपदेन स्त्रीभागो लक्ष्यत । तथा च पूर्वोक्तगुणविशिष्टं स्मरहरमयं शक्तिशिवरूपं तन्मे रूपं तवान्तः सिध्यत्विति वा । पूर्वोक्तं हरमयं मे स्वरूपमलमन्तः स्मर चिन्तय,तद्रूपं सते ते सिध्यत्विति वा । तद्रूपमलमन्तः स्मर, तथा शश्वज्जप स्तुहि, तञ्च सिध्यत्विति वा । शश्वजपनं जपो यस्य तादृश हे नल,सेन्दुममलं कर्पूरगौरं हरमयं शुभावहविधिभूतं तन्मे विशिष्टं रूपं स्मर, रपते. भाषमाणाय स्तुवते सते साधवे तुभ्यं सिध्यतु वा । रपते ते स हरः सिध्यतु साक्षात्कर्मसाधको भवत्विति वा । स्तुवते ते तद्रूपं हरो वा सते शोभमानायाभीष्टाय सिध्यतु । यद्वा-स्मरहरं शिवं शिवरूपं शश्वज्जप सदा स्तुहि, सोऽयं स्मरहरस्ते सिध्यतु साक्षाद्भवत्विति वा । अन्तर्मध्ये मन्त्राः शैवाः शाक्ताश्च यस्य तादृशमिति वा । तत्किम्-यद्रूपं शब्दरूपत्वाद्भगवती च भगवांश्च भगवन्तौ पार्वतीपरमेश्वरावभिधेयं यस्य । [१]यद्वा-भगकन्छब्दवाच्यमर्धनारीश्वरम् । भवति(इत्यर्थः) । कथम्-यतः द्विधा स्त्रीपुंसरूपौ द्वौ भागौ रूपं भूतम् । प्राप्तमिति वा । एतत्कुत इत्यत आह-यतोर्धे दक्षिणभागे अ वामा न स्त्री। किंतु पुरुष इत्यर्थः । अर्धे वामभागे वामा स्त्री चेति सामर्थ्यादर्धशब्दावृत्त्या योज्यम् । एवं द्विधाभूतमित्यर्थः । अवामं दक्षिणम् , आ सामस्त्येन वाममावाममदक्षिणं च अवामावामे च तेऽर्धे च समौ भागौ भूतं प्राप्तं सद्यद्विधा भवतीति वा । परमुभयोराकारयोः स्वरूपयोर्घटनान्मेलनात्सकलं संपूर्णैकरूपमित्यर्थः । यद्रूपमर्धे वामभागेऽवामा अप्रतिकूला प्रसादावदातकान्तमुखी वामा स्त्री भवति । पार्वती रूपं भवतीत्यर्थः । तद्धरमयं रूपमित्युक्तेः सामर्थ्याद्दक्षिणार्धे महेशः पुरुषरूपं भवति । एतेन शक्तयुद्रेकः सूच्यते । कीदृशं हरं, स्मरहरं वासेन्दुम् । तथा-अमलम् । सेन्दुत्वेपि कलङ्करहितम् । यतः-सकलं कलामात्रचन्द्रयुतम्-कलामात्रं निष्कलङ्क भवतीत्यर्थ इति वा । कलाभिरणिमाद्यैश्वर्यैः,चतुःषष्टि- कलाभिश्चोपेतमिति वा । यद्रूपमधे अश्चासौ वामा चावामा शक्त्यात्मको विष्णुः । अर्धे मा वा लक्ष्मीश्च । वा चार्थे । यद्वा-अवतीत्यवा रक्षिका मा लक्ष्मीः। लक्ष्मीना-


  1. निषेधार्थकोयमकारः । अत एवाव्ययकाण्डे हैमकोषे-~-'अ स्वल्पार्थेऽप्यभावेपि' इति, मेदिन्याम्-'अशब्दः स्यादभावेपि स्वल्पार्थप्रतिषेधयोः । अनुकम्पायां च तथा वासुदेवे त्वनव्ययः ' ॥ इति स्पष्टमुपलभ्यते ।