पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६१
षोडशः सर्गः।

इत्यालेपुरनुप्रतीकनिलयालंकारसारश्रिया-
 हंकुर्वत्त्वनुरामणीयकममूरालोक्य पौ[१]रप्रियाः ।
सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं
 तस्याध्यास्य यतः शतऋतुहरिक्रीडाद्रिमिन्दोरिव ॥ ९२ ॥

 इतीति ॥ अमूः पौराणां प्रिया इति पूर्वोक्तप्रकारेण यथास्फूर्ति यथाभिप्रायमन्योन्यमालेपुः संवादं चक्रुः। किंभूताः --कुरुविन्दवत्पद्मरागवत्सुन्दरौ रक्तौ करौ यस्या आनन्दनं वेगवत्त्वादिगुणयोगादानन्दकारिणं स्यन्दनं रथमध्यास्य यतो गच्छतस्तस्य नलस्यानुप्रतीकं प्रत्यवयवं निलयः स्थानं येषां तेषामलंकाराणां सारश्रिया श्रेष्ठशोभया कृत्वा करसौन्दर्यादहमधिकमिति हस्तसौन्दर्यं वदति, हस्तसौन्दर्यादहमधिकमिति करसौन्दर्यमित्येवं प्रत्येकमहंकुर्वदहंकारं कुर्वत्तनुरामणीयकं शरीरसौन्दर्यमालोक्य सानन्दा हर्षपराः । कस्येव--पद्मरागवद्रक्तकिरणस्य नन्दनवनमभिव्याप्य मर्यादीकृत्य वा स्थितं नन्दनवनसमीपे स्थितं शतक्रतोर्हरिदिक् प्राचीदिक तस्याः क्रीडाद्रिमुदयाचलमधिष्ठाय गच्छत उदित्वरस्येन्दोरिव तत्कायकान्तिं विलोक्य यथा सानन्दा भवन्ति तथेत्यर्थः। चन्द्रोदये स्त्रीणां हर्षः। स्यन्दनम् 'अधिशीङ्-' इत्याधारस्य कर्मत्वम् । यतः, इणः शतरि रूपम् ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः पञ्चदशः कृशेतररसस्वादाविहायं महा-
 काव्ये तस्य कृतौ [२]नलीयचरिते[२] सर्गो निसर्गोज्ज्वलः॥१५॥

 श्रीहर्षमिति ॥ कृशेतरेणातिभूयसा रसेन स्वादावमृतरूपे नलीयचरिते पञ्चाधिकानां दशानां पूरणः पञ्चदशः। 'स्वादौ' इति भाषितपुंस्कम् ॥

इति श्रीवेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे पञ्चदशः सर्गः॥

षोडशः सर्गः


वृतः प्रतस्थे स रथैरथो रथी गृहान्विदर्भाधिपतेर्धराधिपः ।
पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्गलः ॥१॥


  1. 'पौरस्त्रियः' इति पाठो जीवातुसंमतः
  2. 'काव्ये तस्य हि वैरसैनिचरिते' इति जीवातुसंमतः पाठः ।