पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७१
षोडशः सर्गः।

मनुगतमार्ग इति यावत् । एवंभूतो योऽक्षियुगाय दर्शनहर्षे तथा नादत्त यथा दिदृक्षादरदासतां ददानः सन् तयैव तस्य नेत्रयुगस्य । द्रष्टुर्वा । शुष्ककण्ठत्वं ददे । निरन्तरदर्शनाभावात्तादृशी प्रीतिर्न जाता, किंतु-पूर्वोक्तप्रकारेण नेत्रयोर्द्रष्टुर्वा भूरेणुसंबन्धाच्छुष्ककण्ठत्वमेव जातमित्यर्थः । द्रष्टव्यदर्शनाद्धि दृमार्गस्य प्रतिषेधो भवति । अत्र तु वेगातिशयादर्शनाभावादप्रतिषेधस्तस्येति वा । अथच-जलरहितः कृतो दूरो दृष्टिगोचरो यो मार्गः स पिपासोर्नॆत्रयुगाय हर्ष न ददाति । किंतु जलावलोकने पारवश्यम् । तथापि पिपासोः शुष्कण्ठत्वं चेत्युक्तिरिति वा । दाशताम्' इति पाठे दिदृक्षादरस्य दानपात्रत्वं ददावित्यर्थः। 'दासृ दाने' 'दाशगोघ्नौ संप्रदाने' इति निपातनाद्दाश्यतेऽस्मै दाशो दानपात्रम् । 'पारावारे परार्वाची तीरे' इत्यमरः । पक्षे-नास्ति वारि यस्मिन्नसाववारिः । पक्षे वारणं वारः ण्यन्ताद्धञ् स नास्त्यस्यासाववारः । अवारशब्दाद, अवारिशब्दाच्च च्विः[१]

दिवस्पतेरादरदर्शिनादरादढौकि यस्तं प्रति विश्वकर्मणा।
तमेकमाणिक्यमयं महोन्नतं पतद्गृहं ग्राहितवान्नलेन सः ॥२७॥

 दिवस्पतेरिति ॥ दिवस्परिन्द्रस्य भैन्यनुरागवशाद्भीम आदरदर्शिना विश्वकर्मणा यस्तं भीमं प्रत्युद्दिश्याऽदराढौकि उपदारूपेण प्रेषितः स भीमस्तमेकं महापरिमाणं माणिक्यं तन्मयं तद्रूपं तन्निर्मितं वा महोनतमत्युच्चं पतद्गृहं पतद्गण्डूषजलताम्बूलोद्वारादि गृह्णातीति तं नलेन प्रयोज्येन ग्राहितवानङ्गीकारितवान् । नलाय ददे इत्यर्थः । प्रभोर्यस्सिन्नादरः, तं तदनुजीविनः स्वस्वशिल्पेन सेवन्त इति लोकरीतिः । 'पतद्ग्राहः पतद्ग्रहः' इत्यमरः । दिवस्पतेः 'तत्पुरुषे कृति' इति बाहुलकात्षष्ट्या अलुकि कस्कादित्वाद्विसर्जनीयस्य सः। षष्ठ्याः पतिपुत्र-' इति छन्दोविषयत्वात् । ढौकेर्गत्यर्थत्वात्स- कर्मकत्वात्कर्मणि चिण् । गृह्णातीति पचाद्यचि पततो ग्रह इति समासः॥

नलेन ताम्बूलविलासिनोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा।
इति व्यवेचि स्वमयूखमण्डलादुदञ्चदुचारुणचारुणश्चिरात् ॥२७॥

 नलेनेति ॥ उदञ्चदुचारुणचारुण उदित्वरोन्नतगरुडाग्रजवत्, उदित्वरोन्नतसूर्यवद्वा सुन्दरादतिरक्तात् । ऊर्ध्वं प्रसरत्किरणोऽतिशयितो यःस्वीयो (रक्त) रूपगुणस्तेन चारोर्वारक्ततरात्स्वमयूखस्य मण्डलात्संघाद्धेतोस्ताम्बूलविलासिना ताम्वूलरसमात्रग्राहिणा पूगनागवल्लीदलखण्डत्यागिना नलेन गृहीतरसत्वादुज्झितैस्त्यक्तैर्माणिक्यशकलसदृशैर्मुखोद्गाररूपैः पूगकणैः क्रमुकाल्पशकलैरयं भृतः पूरितो न वा पूरित इति यः पतद्ग्रहश्चिराद्भूयसा कालेन सूक्ष्मेक्षिकया क्रमेण मुक्तसंशयैलॊकैर्व्यवेचि निश्चितः । तं प्राहितवानिति पूर्वेण संबन्धः । समीपं गत्वा सूक्ष्मेक्षिकया अयमिदानीं पूगकणैर्भूत इति निश्चितः, कदाचिच्च इदानीं न भृत इत्यपि निश्चित इत्यर्थः । भृताभृतत्वसंदेहे रक्तमयूखमण्डलं हेतुः । माणिक्यमयत्वादतिरक्त इत्यर्थः । तदानीं ताम्बूलस्यानवसराद्भा-


  1. 'अवारीकरणाद्यसंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः।