पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३३
सप्तदशः सर्गः ।

 परलोकसद्भावेपि देहान्तरप्राप्तावपि च न किंचिदनिष्टमित्याह-

एनसानेन तिर्यक्स्यादित्यादिः का बिभीषिका ।
राजिलोऽपि हि राजेव स्वैःसुखी सुखहेतुभिः ॥ ७२ ॥

 एनसेति ॥ अनेन लोकैः क्रियमाणेन ब्रह्महत्याद्येनसा पातकेन तिर्यक्रिमिपक्ष्यादि स्याद्भवेदित्यादिरेवंप्रकारिका विभीषिका भयोपदर्शनं किम् । अपि त्वनिष्टहेतुत्वाभावान्न किंचिदेतत् । हि यस्माद्राजिलोऽपि तिर्यक्ष्वतिहीनः सर्पविशेषो जलव्यालोऽपि स्वैः स्वीयैः सुखहेतुभिर्भेकभक्षणजलाहारसजातीयतरुणीसंभोगादिभिः सुखकारणै राजेव सुखी । स्वजात्यनुगुणाहारविहारसंभोगादीनि विचित्राण्येव सर्वेषां सुखसाधनानि न तु नियतानि कानिचित् । ततश्च पापफलभूते तिर्यग्योनित्वे जातेऽपि सुखसद्भावान्न किंचिदनिष्टमित्यर्थः । 'समौ राजिलडुण्डुभौ' इत्यमरः। बिभीषिका 'धात्वर्थनिर्देशे ण्वुल्' इति ण्वुल् । 'भियो हेतुभये षुक्' इति षुक्। प्रत्ययस्थात्-' इतीत्वम् ॥

 युद्धे हतानां स्वर्गप्राप्तिरित्यादि भारतादिवचनं दूषयति-

हताश्चेदिवि दीव्यन्ति दैत्या दैत्यारिणा रणे।
तत्रापि तेन युध्यन्ता हता अपि तथैव ते ॥ ७३ ॥

 हता इति ॥ सङ्ग्रामे हताः संमुखं पतिता दिवि दीव्यन्ति क्रीडन्ति इति चेद्यदि तर्हि दैत्यारिणा श्रीविष्णुना रणे हता हिरण्यकशिपुप्रभृतयो दैत्यास्तत्रपि स्वर्गेपि तेन सह युध्यन्तां युद्धं कुर्वन्तु । यस्माद्धता मारिता अपि ते दैत्या भवदीयमते तथैव रणे संमुखपतनात्स्वर्गे जीवन्त एव । ततश्च यं यं वापि स्मरन्भावम्-' इत्यादिवचनप्रामाण्यान्मरणसमयेऽपि दैत्यैर्दैत्यारिणा सह विरोधस्य चित्ते धृतत्वात्स्वर्गप्राप्तावप्यसुरभावस्य तथैव वर्तमानत्वात्तत्रापि तेन सह योद्धव्यमेव । तत्रापि युध्यन्त एवेति कुत्रचित्पुराणादौ नाकर्ण्यते । तस्माद्रणे पतितानां मरणादधिकं किंचिदपि नास्तीति 'रणादपलाय. नात्स्वर्गः' इत्यादिक्षात्रधर्मप्रतिपादकं वाक्यजातमप्रमाणमेवेति भावः । हता अपीत्यत्र 'हतो, अपि' इति पदेन हतौ हिंसायां कृतायामपि मरणे प्राप्तेपि । अन्यत्पूर्ववत् । 'ह- तावपि' इति वा पाठः॥

 इदानीं मायावेदान्तसिद्धान्तं दूषयति-

स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।
इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम् ॥ ७४ ॥

 स्वामिति ॥ संसारे संसरणावसरे स्वं जीवात्मस्वरूपः प्रपञ्चश्व, तथा-अनाद्यविद्याविलासवासनाविद्यमानभेदं ब्रह्म च, इति द्वयमप्यस्ति । चौ समप्राधान्यद्योतनार्थौ । मुक्तौ तु मोक्षे संजाते पुनराविद्यकजीवव्यवहारनिवृत्तेः केवलं स्वप्रपञ्चरहितं ब्रह्मैव वर्तते । घटोपाधिनिवृत्तेर्घटाकाशनिवृत्तावाकाशमात्रस्यावस्थानवत्संसारोपाधिनिवृत्तेः स्वनिवृत्तौ 'एकमेवाद्वितीयं ब्रह्म' ब्रह्मात्मना संपत्तिर्भवतीर्थः। तथापि प्रपञ्चस्य शु-