पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३४
नैषधीयचरित

क्तिरजतवन्मिथ्यादृश्यत्वादित्येवं स्वस्योच्छित्तिरेव मुक्तिस्तस्या उक्तिर्वचनं तत्र वैदग्धी नानारूपोक्तिनिरूपणकौशलं वेदवादिनां वेदान्तमतानुसारिणाम् । आत्मार्थं सर्वम्, तस्योच्छेदः प्रतिपादित इति महत्कौशलम्, इति मायावेदान्तमतोपहासः । वेद- वादिनामिति छान्दसास्ते किंचिदपि न जानन्तीति सूचितम् । अपि च संसारे द्वयम्, मुक्तौ त्वेकम्, ततश्च द्वयं परित्यज्यात्मोच्छेदपुरःसरमेकं मूर्खादन्यः कोपि नेहते । तस्मान्मूर्खा एव त इति भावः । वेदवेदिनाम्' इति च पाठः । पूर्व एव भावः । 'वेदवेदिता' इति पाठे स्वोच्छित्तिमुत्युक्तिवैदग्धीरूपा वेदार्थज्ञातृता । आत्मविनाशोक्तिवेदार्थपरिज्ञानं नामेत्युपहासः॥

 न्यायवैशेषिकसिद्धान्ताभिमतां मुक्तिं दूषयति-

मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् ।
गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः॥ ७५॥

 मुक्तय इति ॥ यः सचेतसां चैतन्यवतां सुखदुःखाद्यनुभवाभावाच्छिलात्वाय पाषाणावस्थारूपायै मुक्तये मुक्तिं प्रतिपादयितुं शास्त्रमूचे न्यायदर्शनं निर्ममे 'तदत्यन्तविमोसोऽपवर्गः' इत्यनेन सकलविशेषगुणोच्छेदो मुक्तिरिति मुक्तस्य शिलातुल्यत्वं प्रत्यपादयत् । यूयं तं स्वयमेवावेत्य विचार्यैव गोतममेतन्नामानं मुनिं यथा वित्थ जानीथ स एव तथा नान्य इत्यर्थः। एवं येनोक्तं स गोतम इति यथा युष्माकं संमतः, तथा ममापीत्यर्थः। वैशेषिकास्तु तदीयमतानुसारिण इति भावः । अथवा-नायं परं नाम्ना गोतमः। किंतु प्रकृष्टो गौर्गौतमः पशुरेव सचेतसां शिलारूपमुक्तिप्रतिपादनादित्यर्थतोऽपि गोतम एवेति भावः । आत्यन्तिकी दुःखनिवृत्तिर्मोक्ष इति, सुखमपि दुःखानुषङ्गित्वाद्धेयमेवेति वदताम् 'अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः' इति च तत्र प्रमाणमुदाहरतां वैशेषिकाणामपीयमेव मुक्तिः संमतेति न्यायवैशेषिकसिद्धान्तोपहासोऽनेन कृत इति ॥

 हरिहरादिध्यानान्मुक्तिरिति वचनानि दूषयति-

दारा हरिहरादीनां तन्मग्नमनसो भृशम् ।
किं न मुक्ता कुतः सन्ति कारागारे मनोभुवः ॥ ७६ ॥

 दारा इति ॥ हरिहरादीनां लक्ष्म्यादयो दाराः स्त्रियः भृशं निरन्तरं तेष्वेव मग्नं ध्याननिश्चलं मनो यासामेवंविधा अपि किं कस्माद्धेतोः न मुक्ताः । प्रत्युत कस्माद्धेतोः भनोभुवः कारागारे सन्ति । सदैव कामपरवशास्तिष्ठन्तीत्यर्थः। तस्मान्न मुक्ता इति भावः। एतेन 'सकृदुचरितं येन शिव इत्यक्षरद्वयम्' तथा 'मर्पितमनोबुद्धिर्यः स मामति पाण्डव' इत्यादिवचनैर्हर्यादिध्यानमात्रं मोक्षकारणमिति प्रतिपादयतः शैवादिशास्त्रस्य मुक्त्यभावेन सव्यभिचारत्वादप्रामाण्यम् ॥

 ईश्वरवादिनो नैयायिकान्दूषयति----

देवश्चेदस्ति सर्वज्ञः करुणाभागवन्ध्यवाक् ।
तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नार्थिनः॥ ७७ ॥