पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
प्रथमः सर्गः

प्रियासु बालासु रतक्षमासु च द्विपत्त्रितं पल्लवितं च बिभ्रतम् ।
स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥११८॥

 पयोधीति युग्मम् ॥ स नलस्तत्र तस्मिन्केलिपल्वले क्रीडाल्पसरसि चित्रमन्तिके विचरन्तं हंसीसमीपे गच्छन्तं हिरण्मयं सुवर्णमयं हंसमबोध्यज्ञासीत् । किंभूते-पयोधिः समुद्रस्तस्य लक्ष्मीं शोभां पूर्वोक्ताब्धिलक्षणप्रकारेण मुष्णातीति । किंभूतं हंसम्- रिरंसू रन्तुमिच्छुः हंसी तस्याः कलनादोऽव्यक्तमधुरध्वनिस्तत्र सादरं साभिलाषम् । चित्रं सुवर्णमयत्वादाश्चर्यकारकं वा । अन्तिके पल्वलसमीपे वा। क्तप्रकारणातिवर्णितस्य पल्वलत्वमनुचितम् । तत्तु नलस्य क्रीडासर इति बुद्ध्या पल्वलशब्दप्रयोग इति वा । अथ च विस्तरत्वात्समुद्रतुल्ये विनाशित्वात्पल्वलतुल्ये शरीरे विचरन्तं हंसं परमात्मानं कश्चिद्योगी पश्यति । रिरंसुर्हंसी शक्तिः तस्याः कलनादे सादरम् । हिरण्मयत्वं 'हिरण्मयः पुरुषः' इति श्रुतेः । विहरन्तमिति क्वचित् । हिरण्यस्य विकार इत्यर्थे मयटि 'दाण्डिनायन-' इत्यादिना हिरण्मयः साधुः । अबोधीति कर्तरि चिण् । प्रियास्विति । किंभूतम्-बालासु प्रियासु रतक्षमासु च सुरतसमर्थासु प्रियासु चञ्च्वोर्मिषेण चरणद्वयस्य च मिषेण द्विपत्त्रितं द्विपत्त्रयुक्तं पल्लवितं पल्लवयुक्तं च स्मरार्जितं कामोत्पन्नं रागोऽनुरागस्तल्लक्षणो महीरुहो वृक्षस्तस्याङ्कुरं बिभ्रतं यथाक्रमं धारयन्तम् । बालासु स्वल्पोऽनुरागः प्रौढासु भूयानित्यर्थः । पत्त्रद्वयसाम्यं चञ्चुपुटस्य । अनेकाङ्गुलीसंयोगाच्चरणद्वयस्य पल्लवसाम्यम् । राजहंसस्य च चञ्चुचरणं लोहितम् । द्विपत्रपल्लवाभ्यां तारकादित्वादितच् । बिभ्रतमिति 'नाभ्यस्तात्-' इति नुमभावः। चञ्चुपुटस्य द्विपत्त्रितत्वाद्बालासु प्रियासु चुम्बनादिव्यापारः। प्रौढासु चरणद्वयस्य पल्लवितत्वात्सर्वाङ्गीण इति सूचितम् ॥

महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोदिनम् ।
मियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाकान्तमना मनागभूत् ११९

महीति ॥ स महीमहेन्द्रः पृथ्वीन्द्रः प्रियावियोगाद्भैमीविरहान्निर्भरमत्यन्तं विधुरोऽपि विह्वलोऽपि तं शकुन्तं हसं क्षणं मुहूर्तमवेक्ष्यावलोक्य मनागीषत्कुतूहलेन कौ-


१ 'चञ्चोः' इत्येकवचनान्तोऽपि पाठः क्वचित् । २–अत्र 'रागं बिभ्रतम्' इति हंसविशेषणाद्रागस्य हंसाधिकरणकत्वोक्तिः । प्रियास्वधिकरणभूतासु इत्युपाध्यायविश्वेश्वरव्याख्यानं प्रत्याख्येयम् । अन्यनिष्ठरागस्यान्याधिकरणकत्वायोगात् । न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम् । अस्येच्छापरपर्यायस्य तथात्वायोगात् । अन्यथा बुद्ध्यादीनामपि तथात्वापत्तौ सर्वसिद्धान्तविरोधात् । विषयानुरागाभावप्रसङ्गाच्च । उभयोरपि रागित्वसाम्यादुभयनिष्ठत्वभ्रमः केषांचित् । तस्मात्कामिनोरन्योन्यविषयत्वमेव नाधिकरणत्वम् इति सिद्धम् । प्रियास्विति विषयसप्तमी न त्वाधारसप्तमीति सर्वं रमणीयम् । अत्र 'रागमहीरुहाङ्कुरम् इति रूपकं चञ्चुचरणमिषेण इत्यपह्नवानुप्राणितम्' इति संकरः । तेन च बाह्याभ्यन्तररागयोर्भेदेऽभेदलक्षणातिशयोक्त्युत्थापिता चञ्चुचरणव्याजेनान्तरस्यैव बहिरङ्कुरितत्वोत्प्रेक्षा व्यज्यते इत्यलंकारेणालंकारध्वनिः' इति जीवातुः । 'अत्र अनुप्रासयथासंख्यरूपकापह्नुतिसंसृष्टिः' इति साहित्यविद्याधरी ।