पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५२
नैषधीयचरिते

प्रियाय नितरां तुष्ट्यै प्रैतु म्रियताम् । स्वयं सर्वैः स्वेच्छाचारः क्रियते, मया तु स्वेच्छाचारो न कर्तव्यः, मर्तव्यमेवेति कीदृशीयं भवतां परप्रद्वेषरीतिरिति लोकरीत्योपहासः। अथच -यूयं ब्रह्मादयः सर्वेपि स्वेच्छाचारिणः स्वाच्छन्द्यं कुरुत नाम, कलिस्तु न तादृगिति ब्रह्मैव चरतु, युष्माकमप्यतिप्रियाय भैमीलक्षणाय xxx म्रियताम् । भवद्वत्स्वेच्छाचारं न करोमि किंतु भैमीप्राप्तये प्रवृत्तस्य मम मरणं चेत्स्यात्, तदप्यस्त्विति भावः। अत्राप्युपहास एव तात्पर्यम् । क्रीडार्थत्वेति(पि) 'दिवः कर्म च' इति करणस्यापि कर्मत्वात्स्त्रीभिरित्यर्थे द्वितीया ॥

 उपहासमेव प्रकटयति-

दूचर्यैव कतमेयं वः परस्मै धर्मदेशिनाम् ।
स्वयं तत्कुर्वतां सर्वं श्रोतुं यद्विभितः श्रुती ॥ १२३ ॥

 चर्येति ॥ हे देवाः, परस्मा अन्यस्मै जनाय 'स्वसुतादिगमनं न कार्यम्' इति धर्मदेशिनां धर्ममुपदिशतां स्वयं तद्ब्रह्महत्यास्वसुतादिगमनं सर्वं निषिद्धं कर्म कुर्वतां वो युष्माकमियं कतमैव कैव चर्या आचाररीतिः । अपितु न कापीत्याक्षेपः । अचेतनेअपि श्रुती कर्णौ यद्भवदीयमहल्यादिगमनं कर्म श्रोतुं विभितः त्रस्यतः स्वेच्छाचारिणां भवतां परपीडायामेव तात्पर्यमिति भावः । चर्या भावे 'गदमद-' इति यत् ।

दूतत्र स्वयंवरेऽलम्भि भुवः श्रीर्नैषधेन सा।
जगतो ह्रीस्तु युष्माभिर्लाभस्तुल्याभ एव वः॥ १२४ ॥

 तत्रेति ॥ तत्र स्वयंवरे नैषधेन भुवः श्रीः सौन्दर्यातिशयाद्भूलक्ष्मीः सा भैमी अलम्भि प्राप्ता । युष्माभिस्तु पुनर्जगतो ह्रीस्त्रैलोक्ये यावती वर्तते सा लज्जा, जगतः सकाशाद्वा, भैम्यनादृतत्वाद्या लज्जा सा लब्धा । इति वो नलस्य युष्माकं च लाभोऽपूर्ववस्तुप्राप्तिस्तुल्य एवाभासते तुल्याभ एव । शकारहकारमात्रवैरूप्यमितरत्तुल्यमेवेति । [१]भवद्भिर्लज्जैव लब्धा, नतु भैमीति रूपदर्पो वृथैवेति भावः । अयं च यूयं च यूयं तेषां वः। एकशेषः॥

दूरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवक्रणा।
लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम् ॥ १२५ ॥

 दूरादिति ॥ आगच्छतो नोऽस्मान्दूराद्दूरत एव प्रेक्ष्य यौष्माकीयं वक्त्रवक्रणा मुखकौटिल्यकरणं युक्तैव । किंभूतानां युष्माकम्-[गुणीभूतस्य विग्रहान्तर्गतस्य युष्मच्छब्दस्य विशेषणम् ] यतो भैम्यवृतत्वात्संजातया लज्जयैव हेतुना आस्माकं मुखमीक्षितुमसमर्थानाम् । लज्जाशीलो ह्यन्यं दूरादेव दृष्ट्वा लज्जया मुखं न दर्शयति । तस्मात्सलज्जा


  1. 'अलम्भि लब्धा । लभेर्ण्यन्तात्कर्मणि लुङि 'विभाषा चिण्णमुलोः' इति विकल्पान्नुमागमः' इति 'मल्लिनाथस्तु भ्रान्तः ।