पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५८
नैषधीयचरिते


 दानाल्पत्वनलमहत्त्वप्रकटनपूर्वं वैलक्ष्यस्यौचितीं समर्थयते-

फलसीमां चतुर्वर्गं यच्छतांशोपि यच्छति ।
नलस्यास्मदुपघ्ना सा भक्तिर्भूतावकेशिनी ॥ १४२ ॥

 फलेति ॥ यस्या नलभक्तेः शतांशोपि शततमो भागः फलस्य सीमां मर्यादाभूतं निरतिशयफलरूपं चतुर्वर्गं धर्मार्थकाममोक्षरूपं यच्छति नलाय दातुं शक्नोति, सास्मदुपघ्नास्मदाश्रयाऽस्मद्विषया नलस्य भक्तिरवकेशिनी निष्फला भूता जाता । यस्याः शततमांशेन वशीकृतैरस्माभिः संतुष्य फलरूपत्वेन चतुर्वर्गोपि नलाय दातुं शक्यते, तस्या निरतिशयायाः परिपूर्णायाश्चतुर्वर्गादधिकतमस्य फलस्याभावादस्माकं दातुमसामर्थ्यात्सा निष्फलैव जातेत्यर्थः । निरतिशयभक्तेर्युक्तत्वान्महते नलाय चतुर्वर्गोप्यल्पतरफलत्वाद्दातुमयुक्तः। तादृशाय भैमीलक्षणाल्पतमफलदाने कृतेऽस्माकं लज्जा युक्तैवेति भावः । यच्छततमांशवशीकृतैरस्माभिर्दत्तसामर्थ्यो नलोप्यन्यस्मै जनाय फलावधिचतुर्वर्गं दातुं शक्नोतीति यावत् , सा भक्तिरपूर्णा निष्फला जातेति वा व्याख्येयम् । 'सोपि' इति पाठे चतुर्वर्गं ददतामस्माकं स नलोपि क्रियमाणकर्मफलमर्यादां ब्रह्मार्पणरूपेण ददाति तस्याः पुनः प्रत्यर्पणात्तस्यास्माकं च साम्यमेव । किंतु नलस्यास्मद्विषया सा निरतिशया कर्ममात्रस्यापि ब्रह्मण्येवार्पणात्फलाभिसंधानरहिता भक्तिर्वन्ध्या जाता, तादृग्भक्तिफलदानेऽस्माकमसामर्थ्यात् । तथाच वैलक्ष्यं युक्तमेवेति व्याख्येयम् । यच्छताम् । संबन्धे षष्ठी। शतं चासावंशश्चेति विगृह्य लक्षणया शततमोंश इति । 'उपघ्न आश्रये' इति साधुः॥

 नलो वैरार्हो न भवतीत्याह-

भव्यो न व्यवसायस्ते नले साधुमतौ कले।
लोकपालविशालोऽयं[१] निषधानां सुधाकरः ॥ १४३ ॥

 भव्य इति ॥ हे कले, रागद्वेषादिराहित्येन साध्वी निर्मला मतिर्यस्य तस्मिन्नले विषये ते व्यवसायो वैरकरणोद्यमो भव्यः शुभोदर्को न । किं च निषधदेशानामाह्लादकत्वात्सुधाकरश्चन्द्रोऽयं नलो लोकपाला दिक्पालास्तद्वद्विशेषेण शालते शोभते स्वाभाविकेन शौर्यादिना । तदंशत्वाद्वा लोकपालवन्महाशयः ।अतस्तेन सह वैरं तव शुभोदर्कं न भवतीति न तत्कार्यमित्यर्थः । 'मते' इति असाध्वी मतिर्यस्येति कलिविशेषणम् । 'मतः कले' इति पाठे-असाधोर्द्वापरादेरनुमत इति व्यवसायविशेषणम् ॥

 एतदेव स्फुटयति-

न पश्यामः कले तस्मिन्नवकाशं क्षमाभृति ।
निचिताखिलधर्मे च द्वापरस्योदयं वयम् ॥ १४४ ॥


  1. 'असौ' इति पाठः सुखावबोधा।