पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरित


जितावित्यपि ते जेतव्ये इति स्पर्धयेव जयतोरिति यथाश्रुत एव वा संबन्धः । अत्र स- र्वत्राल्पाच्तरत्वान्न्यायप्राप्तोपि पूर्वनिपातो रतेर्नले कामभ्रमोदयान्नलरतिकामपदानां प्राक्प्रयोगस्य, रतीशस्य भैम्यां रतिभ्रमोदयाद्भीमसंभवारतीशकामरमणीपदानां पश्चा- त्प्रयोगस्य, औचितीं सूचयतीतिं ज्ञेयम् । रतिरतीशयोर्विषये स्पर्धयेति केचित् । ते प्र- थमाद्विवचनान्तम् । कामकामरमणीबभूवतुरिति च्विः । कुलकम् ॥

तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः ।
ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः॥२९॥

 तत्रेति ॥ अथ तत्रोक्तगुणे सौधरूपे सुरभूधरे मेरौ तयोस्ते कामकेलय आविरासुः स्पष्टं दिदीपिरे । ते के कामकेलयः–महाकविभिर्व्यासकालिदासादिभिर्निगूढभावद- शिभिरप्यवीक्षिता न बुद्धिगोचरीकृताः । तेषामपि न स्फुरिता इति यावत् । तथा-- अनेकनरसंभोगचतुराभिः पांसुलाभिः स्वैरिणीभिरपि ये न शिक्षिता अभ्यस्ता नाना- जारशिक्षोपदेशादपि न ज्ञाताः । एतेनालौकिकाः कामविलासा वर्णयिष्यन्त इति सू- चितम् । 'द्रवकेलिपरीहासाः' इति केलिशब्दः पुंलिङ्गोऽपि ॥

पौरुषं दधति योषिता नले स्वामिनि श्रिततदीयभावया ।
यूनि शैशवमतीर्णया कियत्प्रापि भीमसुतया न साध्वसम् ॥३०॥

 पौरुषमिति ॥ एवंभूतया भीमसुतया एवंभूते नले विषये कियत्किंपरिमाणं साध्वसं भयं न प्रापि, अपि तु बहु भयं प्राप्तम् । अधार्ष्ट्यं प्रापेत्यर्थः । किंभूते नले-पौरुपं द- धति बलिनि । किंभूतया स्वयं तु–योषिताऽबलया । तथा-स्वामिनि आत्मनः प्रभौ राजनि च । स्वयं तु-श्रितोऽङ्गीकृतस्तदीयभावस्तदीयत्वं यया नलदासीभूतया। तथा-यूनि तरुणे । स्वयं तु-शैशवं बाल्यमतीर्णयाऽनतिक्रान्तया वयःसंधौ वर्तमा- नया । बलिनः स्वामिनो राज्ञस्तरुणाच्चावलया दासीभूतया बालया भयं प्राप्यत इति युक्तमिति । अत्र च प्रथमसंभोगे किं वा भावीति ईदृशे नले ईदृश्या तया महद्भयं प्रापीति भावः। सर्वाण्यपि विशेषणानि हेतुगर्भाणि । अथ च-श्रितो नलविषयो भावो रमणाभिलाषो ययैतादृश्यापि स्वामिनि भर्तरि नले महद्भयं प्रापि । यतः -पूर्वोक्तगु- णविशिष्टे पूर्वोक्तगुणविशिष्टया चेति । एवंभूतेऽपि नले एवंभूतया तया साध्वसं कि- यदल्पमेव प्राप्तम् । बहु साध्वसं वर्तत एव, तथापि किंचित्साध्वसं परित्यक्तम् । यस्मा- त्-श्रितो नलविषयो रमणाभिलाषो ययेति वा । अथ च-श्रितः परिशीलितो ज्ञातो नलाशयो यया बाल (ला) या मम कण्ठोपभोगं न करिष्यतीति निश्चितनलाभिप्राया भयं न प्रापेति भाव इति वा । श्रितोऽनुष्ठितो नलाशयो यया नलभावानुकूलवर्तिन्या प्रथमसंभोगे पौरुषमवलम्ब्य क्रीडाकौतुककारी भवति, कान्ता चानुत्तीर्णशैशवा कि- मत्र भावीति सभया किंचिदप्यजानानाऽल्पभयं विहाय प्रियभावानुकूल्यमाश्रयतीति । एतदनुभवसाक्षिकमिति भावः ॥