पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०७
अष्टादशः सर्गः।


दृष्वा स्वसंभोगचिह्नन स्वस्वरूपेण कृत्वा निजनवस्मरोत्सवं सखीः स्मरयत्येवंशीला सती स्वयं ललज्जे । निजधवेत्यपि पाठः । हृणीङ् कण्ड्वादिः॥

तां मिथोभिदधतीं सखीं प्रियस्यात्मनश्च स निशाविचेष्टितम् ।
पार्श्वगः सुरवरात्पिधां दधदृश्यतां श्रुतकथो हसन्गतः ॥ ६८ ॥

 तामिति ॥ स नलस्तां भैमी हसन् सन् दृश्यतां गतः । स्वेच्छयैव नयनगोचरत्वं प्राप्तः । किंभूताम्-प्रियस्य नलस्यात्मनः स्वस्य च स्वसखीं प्रति मिथो रहसि निशाविचेष्टितं संभोगादिरात्रिवृत्तान्तमभिदधतीं कथयन्तीम् । किंभूतः-सुराणां वरात्पिधामदृश्यत्वं दद्धत् । अत एव-पार्श्वगो निकटस्थः । अत एव-श्रुता भैम्याऽभिधीयमाना रात्रिवृत्तान्तकथा येन । अदृश्येन मयाऽत्रैव स्थित्वा सर्वं श्रुतमिति प्रत्यक्षो भूत्वा हसन् , न चाकथयदित्यर्थः । ऽहसद्गत इति पाठे-श्रुतकथो दृश्यतां गतस्तामहदित्यर्थः । पिधेति 'आतश्चोपसर्गे' इत्यङ् ॥

चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय साभवत् ।
क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम् ॥ ६९ ॥

 चक्रेति ॥ सा भैमी चक्राणां चक्रवाकाणां दारैश्चक्रवाकीभिः सह विरहस्तस्येक्षणक्षणे दर्शनकाले संध्यायां ममापि प्रियेण सहैतद्वियोगो मा भूदिति क्षणमात्रमपि वियोगाद्विभ्यती धवस्य नलस्य हसाय हास्यार्थमभवत् । संध्यावन्दनमात्रजन्येन वियोगेन चक्रवियोगदर्शनमात्रेण च किमिति बिभेषीत्येवं सा प्रियेण हसितेत्यर्थः। तावतैव वियोगेन तद्वियोगदर्शनमात्रेण च किमिति भीतेत्याशङ्क्याह-क्वापि कस्मिंश्चिद्वस्तुनि विषय उद्यदुत्पद्यमानमनिमित्तमकारणं वैकृतं हर्षशोकभयादि यस्मिन्नेवंभूतं चित्तं कर्तृ अनागतं भाविनमर्थं शुभमशुभं वा वदति । तस्माद्भाविवियोगसूचिका साधारणी तस्या भीतिर्युक्तेत्यर्थः । भावी विरहः सूचितः। इयं ज्ञातास्वादा मय्यनुरक्ता चेति संतोषवशात्सा तेन हसितेति भावः । बिभ्यतीं स परिरभ्य नामुचदिति पाठे-भयमोचनार्थं गाढमालिङ्ग्यैव तस्थावित्यर्थः । विकृतिरेव वैकृतं प्रज्ञादित्वादण् ॥

चुम्बितं न मुखमाचकर्ष यत्पत्युरन्तरमृतं ववर्ष तत् ।
सा नुनोद न भुजं तदर्पितं तेन तस्य किमभून्न तर्पितम् ॥ ७० ॥

 चुम्बितमिति ॥ सा क्रमेण गतभीर्गतलज्जा च सती चुम्बितं प्रियेण चुम्बितुमारब्धं मुखं यन्नाचकर्ष वक्रीचक्रे, तच्चुम्ब्यमानमुखानाकर्षणं कर्तृ पत्युरन्तश्चेतस्यमृतं ववर्ष । तदीयं मनः सुधावृष्ट्येव परितुष्टं चक्र इत्यर्थः । तथा तेन स्तनादावर्पितं भुजं यन्न नुनोद निराचकार, तेन भुजस्वीकारेण प्रयोजकेन तस्य किमङ्गं तर्पितं नाभूदपि तु सर्वाङ्गं तेन प्रीणितमभूत् ॥

नीतयोः स्तनपिधानतां तया दातुमाप भुजयोः करं परम् ।
वीतबाहुनि ततो हृदंशुके केवलेप्यथ स तत्कुचद्वये ॥ ७१ ॥