नार्थ गतः प्रासादे नास्तीति सूचितम् । प्रातर्लुप्तषष्टीकमव्ययम् । परितोषिता, ण्यन्तानिष्ठा । आन्तःपुरीभिः, संबन्धेऽण् । 'आन्तःपुरिक्या' इति पाठे-अन्तःपुरशब्दात् 'अन्तःपूर्वपदाट्ठञ्' इति भवार्थे ठञ् । रोचिर्मयेति 'स्त्रियाः पुंवत्-' इति पुंवत् ॥
आगच्छन्भणतामुषः क्षणमथातिथ्यं दृशोरानशे |
आगच्छन्निति ॥ अथ भूपतिर्नलो बन्दिनां दशोरातिथ्यं प्रेक्षणविशेषद्योतितप्रेमभक्तिबाहुल्यनेत्रगोचरत्वमानशे लेभे । किंभूतानाम्-क्षणमात्रमुषः प्रभातसमयं भणतां वर्णयताम् । किंभूतः-स्वर्गङ्गाम्बुनि मन्दाकिनीजले कृतदिनारम्भाप्लुतिः कृतप्रातःस्नानः । तथा–अवरागतैनलबहिर्गमनानन्तरमागतैस्तैमागधैरविदितोऽज्ञातः प्रासादतो निर्गमो राजगृहाद्बहिर्निर्गमो यस्य । तथा-प्रियायौतके भैमीपाणिग्रहणसमये कन्यादानप्रतिष्ठाङ्गतया दीयमाने वस्तुनि मध्ये प्राप्तमतिपुष्पकमतिक्रान्तपुष्पकाख्यकुबेरविमानमतिरमणीयवेगवत्तरं सर्वत्राप्रतिहतगमनं च रथमधिष्ठायारुह्यानन्दात्तज्जवातिशयसंजातहर्षादागच्छन् । मागधागमनात्पूर्वम्, नतु वर्णनानन्तरं प्रबुद्धः प्रासादान्निर्गच्छन्नित्यर्थः । अत एव भैम्यैव ते संभाविता इति पूर्वश्लोक उक्तम् । तस्य परमधार्मिकत्वं सूचितम् । कृतदिनारम्भाप्लुतिरागच्छन्नित्यनेन वक्ष्यमाणभैमीप्रत्युद्गमनम्, उत्तरसर्गसंगतिश्च सूचिता । नलस्य पुण्यश्लोकत्वात्सर्वत्राप्रतिहतगतित्वात्तस्य च रथस्य पूर्वमेव 'सुलङ्घ्याद्रिसमुद्रकापथम्' इत्यादिना सर्वत्राप्रतिहतगतित्वोक्तेश्चातिपुष्पकत्वोक्तेश्च स्वर्गगमनोक्तियुक्तैव । आनशे, 'अश्नोतेश्च' इति नुट् । अतिपुष्पकम् , 'अत्यादयः कान्ताद्यर्थे' इति समासः।रथम्, 'अधिशीङ्-' इत्याधारस्य कर्मत्वम् । 'यौतकप्राप्तम्' इति पाठे-'कर्तृकरणे-' इति समासः। अवरागतैः, 'कालाः' इति द्वितीयासमासः। प्रासादतो निर्गमः ‘पञ्चमी' इति योगविभागात्समासः, पश्चाद्बहुव्रीहिः॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं |
श्रीहर्षमिति ॥ मुख्यां नवार्थघटनामपूर्वार्थनिर्मितिमत्यजतोऽमुञ्चतो नूतनमेव प्रमेयं सर्वत्र वदतः श्रीहर्षस्य । एकानविंशः विंशतेः पूरण इत्यर्थे डटि 'ति विंशतेर्डिति' इति तिलोपे च विंशः। तत एकेन न विंश इति 'तृतीया' इति योगविभागात्समासे 'एकादिश्चैकस्य चादुक्' इति नञः प्रकृतिभावः, एकशब्दस्यादुगागमः ॥
इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे एकानविंशः सर्गः॥