पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७४
नैषधीयचरितम्

करोदरे बिभ्रती । तथा-हर्षादुन्निद्रपद्मदृग्विकसितकमलतुल्यनेत्रा । लक्ष्मीरपि करे पद्मं धारयति, प्रसादाद्विकसितपद्मदृग्भवति । संदेशः, कर्मणि घञ् ॥

प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ।
एकलक्षतया दध्यौ यत्तमेकवराटकम् ॥ ५॥

 प्रियेणेति ॥ असौ भैमी प्रियेण प्रेम्णा प्रत्तं दत्तमेककमलरूपत्वादल्पमपि बहु मेनेतरां नितरां बह्वमन्यत । यद्यस्माद्धेतोरेको मुख्यः श्रेष्ठो वराटको बीजकोशो यस्य तं पद्ममेकमेव लक्षं नयनविषयो यस्य यस्या वा तद्भावेनान्यवस्तुविलोकनपरित्यागेन तदेकपरतयात्यादरेण दध्यावचिन्तयत् । शोभां पुनः पुनरपश्यदित्यर्थः । अथ च-यद्यल्पमपि दत्तं बहुतरं न मन्येत तदैकश्चासौ वराटकश्च तमेकं कपर्दकमपि एकलक्षसंख्यापरिमितद्रव्यत्वेन न ध्यायेदिति श्लेषप्रतिभोत्थार्थापत्तिः । तेन प्रेम्णा स्वर्णकमलदानात् 'वसन्ति हि प्रेम्णि गुणा न वस्तुनि' इति न्यायेन तत्स्वर्णकमलं लक्षकोटिपरार्धद्रव्यादपि नितरामधिकं मेन इति भावः । प्रियपदेन प्रेमभरः सूचितः । पद्मस्य पुंलिङ्गत्वात्तमिति पुंनिर्देशः॥

प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् ।
समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते ॥६॥

 प्रेयसेति ॥ प्रेयसा नलेन सा भैमी इत्यवाद्युक्ता । इति किम्-हे तन्वि कृशाङ्गि, तवालिङ्गनविघ्नं करोतीति कृत् शेषः स्नानसंध्यानन्तरकरणीयत्वेनावशिष्टः श्रुतिस्मृत्युक्तोऽनतिक्रमणीयो नित्याग्निहोत्रादिरूपो विधिर्मया समाप्यतां परिपूर्णीक्रियतां वदेति सामप्रश्नः। परं यदि ते चेतस्याश्लेषविलम्बवशात्क्लेशः खेदश्चेन्न भवेत् । समागतेनाश्लेषलोलुपेन मया भवदाश्लेषः कर्तव्यः, परमन्तरायस्तपःशेषो विधिरस्ति स पुनः प्रसन्नचित्तत्वेन यद्यनुजानासि तर्ह्येव समाप्तिं नेष्यते नान्यथेत्यर्थः । भैमीकर्मकालिङ्गनविषयमेतत् । भैमीकर्तृकालिङ्गनविषय अनालिङ्गनखिन्नां तां प्रत्येवं तेन प्रार्थना कृतेति भावः । 'विधेः शेषः' इत्यपि पाठः॥

क्वैतावान्न[१]र्ममर्माविद्विद्यते विधिरद्य ते ।
इति तं मनसा रोषादवोचद्वचसा न सा ॥ ७ ॥

 क्वेति ॥ सा भैमी इति रोषादीर्ष्यया तं मनसैवावोचन्मनस्यैवैवमचिन्तयत्, न वचसा साक्षान्न वाचा । इति किम्-हे प्रिय, नर्ममर्माविदालिङ्गनादिकेलिरहस्यभेदी एतावानतिबहुरद्यापि ते तव विधिः क्व कुतः कियति वा काले विद्यते, अपितु नास्त्येव सर्वोपि विधिस्त्वया कृत एव केवलं ममालिङ्गनार्थम् । जात्युत्तरमेतत् । यद्वा-अद्यैतावान्क्व विद्यते, अपि तु नास्त्येव । पूर्वं कदाप्येतावतो विधेरदर्शनात् । इदमपि जात्युत्तरमेवेत्यर्थः । रोषवशाल्लज्जावशाद्वा साक्षान्न बभाष इत्यर्थः । प्रतारणमेव मम करो-


  1. शर्ममर्माविदिति पठित्वा शर्मणः क्रीडासुखस्येति व्याख्यातं जीवातौ।