पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९७
विंशः सर्गः।

पुनर्मह्यं देहीति याचितवान्; तत्र विषये स्मरणभूतो भावनाख्यः संस्कारो जागर्ति स्फुरद्रूपो वर्तते तत्स्मरसि किमित्यर्थ इति प्रश्नः ॥

  चित्ते तदस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् ।
  प्राग्भावाधिगमागःस्थे त्वया शम्बाकृतं क्षतम् ॥ ८३ ॥

 चित्त इति ॥ मयि प्राक् त्वय्यप्राप्तसुरतान्तसुखायामेव सत्यां यो भावाधिगमः सुरतान्तसुखप्राप्तिस्तद्रूपे आगस्यपराधे तिष्ठति एवंभूते सति मयि विषये वा समरतस्यैव सुखहेतुत्वाद्विषमरतस्यासुखहेतुत्वात्क्रुधा मध्य एव सुखजन्याद्रोषाद्धेतोर्नखजं क्षतं त्वया शम्बाकृतं प्रथमं फालकृष्टे क्षेत्रे पुनरपि सा(सी)रावदारणवत्प्रथमकृतनखक्षतमध्य एव पुनरपि गाढतरं नखक्षतं यदारोपितं तत्ते चित्तेऽस्ति कञ्चित् । तत्स्मरेत्यर्थः। 'शम्बाकृतं द्वितीयं स्यात्' इति निघण्टुः । शम्बाकृतं, 'कृञो द्वितीय-' इति डाच् । लक्षणया प्रयोगः॥

  स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः ।
  स्वप्नेष्वप्यस्तवैमुख्य सख्ये सौख्यं स्मरावयोः॥८४॥

 स्वेति ॥ स्वीयस्वीयदिशो विनिमयेनैव परिवर्तनेनैव निशि पार्श्वविवर्तिनोर्वामदक्षिणकुक्षिपरिवर्तनशीलयोः नतु यथावस्थितयोः संमुखयोरेवैवभूतयोरावयोस्तव मम च स्वप्नेष्वपि निद्रास्वपि मध्ये अस्तं त्यक्तं वैमुख्यं पराङ्मुखत्वं यत्र तादृशे सख्ये मैन्ने यत्सौख्यं सुखं सुखित्वं वा तत्स्मर । संमुखयोर्हि यथावस्थितयोरेव पार्श्वपरिवर्तने द्वयोरपि पृष्ठभागघटनात्पराङ्मुखत्वमेव स्यादिति स्वस्वदिग्विनिमयपूर्वकमेकदैव पार्श्वपरिवर्तने वैमुख्याभावान्निद्रासमयेपि सांमुख्येन यदावयोर्मैत्रीसौख्यं तत्स्मरेत्यर्थः। स्वस्वदिग्विनिमयेन पार्श्वपरिवर्तने चान्योन्यं सांमुख्यमेव भवतीति सर्वसाक्षिकम् । सौख्यम्, स्वार्थे भावे वा ष्यञ् ॥

  क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम्।
  दर्शिताधरमद्दंशा ध्याय यन्मामतजयः ॥८५॥

 क्षणमिति ॥ सदस्येव सभायामेव वर्तमानापि त्वं सभास्थानां नृणां विमनितानि कार्यान्तरदर्शनपराणि कृतानीक्षणानि यत्र येन वा तादृशं क्षणमवसरं नृत्ताद्युत्सवं वा प्राप्य मह्यमङ्गुल्यादिना दर्शितोऽधरे वर्तमानो मद्दंशो मत्कृतो दन्तव्रणो ययैवंभूता सती तर्जन्यादिन्या मां यदतर्जयः, तद्ध्याय स्मर । विमनितेति, 'तत्करोति-' इति णिचि 'णाविष्टवत्' इति टिलोपः॥

  तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् ।
  करौ योजयताध्ये(धी)हि यन्मयासि प्रसादिता ॥८६॥

 तथेति ॥ तथा अधरदन्तक्षतदर्शनपूर्वं तर्जनीतर्जनाप्रकारमवलोक्य लीलाब्जनालस्य