पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
'९४५
एकविंशः सर्गः

 तदिति ॥ हे रघुनाथ, नामशेषितः कथाशेषीकृतो हतः सेनया सहितो दशास्यो येन तस्मात्तव हस्तात् असौ शम्बुको यदस्तं विनाशमाप । तच्छम्बुकनान्नः शूद्रस्य अम्बुधिचुम्बि समुद्रमध्यवर्ति यशः कम्बुकदम्बं शङ्खवृन्दं धवलतया किं न हसति, अपितु-हसत्येव, तत्तुल्यं भवतीत्यर्थः । येन त्वत्करेणातिशूरो रावणो हतस्तेनैवान्त्यवर्णोऽधमो दुर्बलः शम्बुकोपि हत इति महत्तस्य भाग्यमित्यर्थः । यो ह्युत्कृष्टं बलिनं हन्ति, तेनैव हीने दुर्बले हते दुर्बलस्य महद्यशो भवति । बालब्राह्मणपुत्रमरणनिमित्तं शूद्राणामविहितं धूम्रपानं कुर्वन्तं शम्बुकशूद्रं श्रीरघुनाथो हतवानितीतिहासः। अथच-शम्बुकस्य जलशुक्तेः श्वैत्यरूपं यशः समुद्रमध्यस्थं शङ्खवृन्दं हसति तत्तुल्यं भवतीति युक्तमेव । नामशेषितेति, 'तत्करोति-' इति ण्यन्तानिष्ठा॥

मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपार्ज्य यशस्तत् ।
हीणवानसि कथं न विहाय क्षुद्रदुर्जनभिया निजदारान् ॥ ७५ ॥

 मृत्युभीतीति ॥ यस्मान्मृत्योर्यमादन्येषां भीतिः, तस्य मृत्योर्भीतिकरः पुण्यजनेन्द्रो राक्षसेन्द्रो रावणस्तस्यापि मरणपर्यन्तं त्रासदानाद्भयोत्पादनाद्धेतोर्जातं तदतिप्रसिद्धं लोकत्रये गीयमानं यश उपार्ज्य क्षुद्रोऽत्यल्पको दुर्जनस्तस्माद्भिया भयेन पामरलोकापवादभिया निजदारानात्मनः प्रियां सीतां विहाय परित्यज्य कथं न ह्रीणवान् लज्जितवानसि । लज्जितव्यं तावत्त्वयेत्यर्थः । यो रावणाय भयं दत्तवांस्तस्य दुर्जनभीत्या निर्दुष्टजनप्रियापरित्यागे हि लज्जैव युक्ता । अतिमाननिजस्त्रीहर्ता रावणो नाशितो लोकापवादभयाच्च सापि परित्यक्तेति । एतादृशः शूरोऽभिमानी लोकापवादभीरुश्च कोपि नास्तीति भावः । 'यातुधानः पुण्यजनः-' इत्यमरः । भीतिं करोतीति ताच्छील्ये टः॥

इष्टदारविरहौर्वपयोधिस्वं शरण्य शरणं स ममैधि ।
लक्ष्मणक्षणवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा ॥ ७६ ॥

 इष्टेति ॥ हे शरण्य शरणागतभक्तरक्षण रघुनाथ, स त्वं मम शरणं रक्षकः एधि भव । स कः-यस्त्वम् इष्टदाराणां सीतायाः विरह एव दुःसहत्वादौर्वो वडवानलस्तस्य पयोधिराश्रयः एवंविधः सन् लक्ष्मणस्य क्षणमात्रमपि वियोगः स एव दुःसहतरत्वात्कृशानुस्तत्र स्वजीवितानामात्मप्राणानामेव तृणानामाहुतेस्तद्रूपहोमद्रव्यस्य यज्वा होता । यो हि लक्ष्मणवियोगं क्षणमात्रं सोदुमशक्तस्तृणवद्धेलामात्रेण स्वप्राणांस्तत्याज, स यावज्जीवं सीताविरहानलं कथं सोढवानिति क्रिययोर्विरोधादाश्चर्यम् । यज्वना चाहुतिरग्नौ हूयते । सीताविरहसहनेन जितेन्द्रियधुर्यत्वमुक्तम् । इन्द्रजिता शक्त्या मूर्छिते लक्ष्मणे स्वयमपि मुमूर्छ, तथा मुनिरूपकालकृतसमयभङ्गभग्नप्रतिज्ञे लक्ष्मणे रघुनाथाज्ञया सरयूजलप्रवेशेन कृतदेहत्यागे सति तद्वियोगमसहमानस्तत्क्षणमेव रघुनाथोपि गोप्रतारतीर्थें जलप्रवेशेन स्वयमपि स्वस्थानं प्रापेति युद्धकाण्डोत्तरकाण्डरामायणकथा । एतेन स्त्रीवियोगदुःखापि भ्रातृवियोगदुःखं दुःसहमिति सूचितम् । परमकारुणिकस्त्वं शरणागतं मामपि रक्षेति सूचितम् ॥