पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४७
एकविंशः सर्गः।

जानां वृक्षलताधुन्मूलने सामर्थ्यं युक्तमेवेत्यर्थः। दानशूरो महाप्रभावश्च त्वादृशः कोपि नास्तीति भावः। सत्यभामया याचितः पारिजात इन्द्रं जित्वोन्मूल्य सत्यभामाङ्गणे श्रीकृष्णेन स्थापित इति हरिवंशोक्तिः। निर्ऋतिव्रततिमिति पाठे-'स्यादलक्ष्मीस्तु निऋतिः' इत्यमरः॥

बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् ।
भाविबाणभुजभेदनलीलासूत्रपात इव पातु तदस्मान् ॥८०॥

 बालेति ॥ हे कृष्ण, त्वं तदा कृष्णावतारसमये भूयसीषु बालकेलिषु मध्ये कर्परीभिः स्फुटितघटशकलैः कृत्वा यमुनाजलतरङ्गान् अभिहत्य तेषामभिघातं कृत्वा तानेकप्रयत्नेनालावीरच्छैत्सीरिति यत्, तत्कर्परीभिस्तरङ्गलवनं कर्तृ उषाहरणावसरे भावि करिष्यमाणं बाणासुरभुजभेदनं तल्लक्षणा लीला विलासस्तत्संबन्धी सूत्रपात इव प्रथममार्जवच्छेदनाभ्यासरूपमिवास्मान्रक्षतु । अक्षरपङलेर्ॠजुत्वार्थं प्रथमं खटिकादिम्रक्षितसूत्रपातनं क्रियते । तक्षादिभिरपि काष्ठस्यार्जवच्छेदनार्थं गैरिकादिम्रक्षितसूत्रपातनं क्रियते । तद्वद्वाणासुरभुजार्जवच्छेदनार्थं कर्परीभिरभिहत्य तरङ्गलवनं यदकारि तत्तव बालक्रीडनमस्मानवत्वित्यर्थः । कर्पर्याघातेन तरङ्गच्छेदनं बालजातिः। अवतारप्रभोजनं चोक्तम् ॥

कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते ।
केतनेन कपिनोरसिशक्तिं लक्ष्मणं कृतवता हतशल्यम् ॥८१॥

 कर्णेति ॥ हे श्रीकृष्ण, ते नमोस्तु । किंभूताय ते-उरसि लग्ना इन्द्रजिन्मुक्ता शक्तिर्यस्य तं लक्ष्मणं द्रोणपर्वतानीतविशल्यौषधिप्रक्षेपेण हृतं निष्कासितं शक्तिलक्षणं शल्यं यस्य तादृशं कृतवता केतनेन ध्वजास्तम्भपताकारूपेण कपिना हनूमता कृत्वा कर्णस्य शक्तिमाङ्गिकं बलं, अथच-इन्द्रदत्तां शक्तिम्, अफलां कर्तुमिव सज्जीकृतो योजितोऽर्जुनरथो येन तस्मै । नरनारायणरूपाय । यो हि यत्र कर्मणि दृष्टशक्तिः स एव तत्र नियोक्तुमुचितः। हनूमांश्च शक्तिविफलीकरणे दृष्टप्रभावस्तस्मात्कर्णशक्तिविफलीकरणार्थमिवार्जुनरथे तं स्थापितवानसीति भक्तवत्सलाय तुभ्यं नम इत्यर्थः। यो मर्मभूतामुरःस्थां शक्तिं विफलीकरोति स श्रवणस्थां सुतरां विफलीकरोत्येवेति च्छलेनोक्तिः। खलु इवार्थः । उरसिशक्तिः, 'अमूर्धमस्तकात्-' इत्यलुक् ॥

नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् ।
मा स[१] भूत्सुरवधूसु[२]रतज्ञो दिव्यपि व्रतविलोपभियेति ॥ ८२ ॥


  1. मा स्म' इति पाठो जीवातुसुखावबोधासमतः ।
  2. ’सुरताज्ञः इति पाठमाक्षित्य ’सुरतं संभोगस्तस्याज्ञो मा स्म भूदिति व्याख्याय ’सुरतदक्ष इति पाठस्तु दुर्योज्यत्वादुपेक्ष्यः’ इति सुखात्रबोधायोमुक्त्तम्