पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६६
नषधीयचरिते

 कूजेति ॥ एका सखी पिकेन कोकिलेन सहोपलक्षिता वा तां भैमीमन्ववर्तत लक्ष्यीकृत्य जगाम । किम्भूतेन पिकेन-कूजया मधुराव्यक्तेन शब्देन सहात्मानं युनक्ति युक्तेन ॥ कुहूशब्दं कुर्वता । तथा-बहुलो भूयान्यः पक्षाणां शितिमा कृष्णत्वं तस्मिन्सीम्नाऽवधिभूतेन । अतएव विशेषणक्रमेण (विशेषण) 'कुहूः' इति पदस्य शब्दस्य, तथा-पदार्थस्य तत्पदवाच्यस्यामावास्यारूपस्य च मिथोऽन्वयोऽन्योन्यसम्बन्धो यत्र तादृशेन च स्पष्टमुत्प्रेक्षायाम् । कुहूपदयोगित्वात्कृष्णतमत्वाच्चामावास्या (वाचि) विषये कुहूपदपदार्थयोस्तादात्म्यरूपेणेति यावत् । अमावास्यापि कृष्णपक्षसम्बन्धिनी मर्यादा भवति, अतएव कुहूशब्दवाच्या च । तथा-तिर्यक तिरश्चीनं (यथा तथा) करे धृतः स्फटिकदण्डकस्तत्र वर्तिना स्थितेन । तथा-मदाधिकेन मदोन्मत्तेन । दण्डकेति 'ह्रस्वे' इति कन् । ह्रस्वे दण्डे इत्यर्थः ॥

शिष्याः कलाविधिषु भीमभुवो वयस्या
 वीणामृदुक्वणनकर्मणि याः प्रवीणाः।
आसीनमेनमुपवीणयितुं ययुस्ता
 गन्धर्वराजतनुजा मनुजाधिराजम् ॥ १२५ ॥

 शिष्या इति ॥ या भीमभुवो भैम्या वयस्याः सख्यः कलाविधिषु चतुःषष्टिकलाकर्मसु विषये भैम्या एव शिष्याः, तथा-वीणायाः मृदुक्वणनकर्मणि मधुरशब्दरूपे व्यापारे प्रवीणाः ताः गन्धर्वराजो विश्वावसुस्तस्य तनुजाः कन्यास्तत्तुल्या वा प्रासादे आसीनमेनं मनुजाधिराजमेनमुपवीणयितुं वीणयोपगातुं ययुः प्रापुः । उपवीणयितुं

तासामभासत कुरङ्गदृशां विपञ्ची
  किञ्चित्पुर:कलितनिष्कलकाकलीका।
भैमीतथामधुरकण्ठलतोपकण्ठे
 शब्दायितुं प्रथममप्रतिभावतीव ॥ १२६ ॥

 तासामिति ॥ तासां कुरङ्गदृशां विश्वावसुकन्यानां विपञ्ची वीणा अभासत शुशुभे । किम्भूता-किञ्चित् पुरः ईषत्पूर्वं प्रारम्भसमये कलिताङ्गीकृता निष्कला गम्भीरमन्द्रस्वरश्रुतिवर्णविशेषाभिव्यक्तिरहिता काकली सूक्ष्ममधुराव्यक्तरागविशेषो यया । अत एव-उत्प्रेक्षते-भैम्यास्तथानिर्वचनीयमधुरस्वरयुक्तायाः कण्ठलताया उपकण्ठे निकटे शब्दायितुं तस्याः पुरस्ताच्छब्दमपि कर्तुं प्रथमं प्रारम्भेऽप्रतिभावतीव प्रतिभारहितेवाधृष्टेव । अन्योप्यधिकविद्यस्य पुरस्ताद्भाषितुं गातुं वाऽधृष्टः सन् प्रथमं मन्दमेव भाषते गायति चेति । सङ्गीतविद्याविदामियं जातिः। प्रथमं गायनाः गानप्रारम्भे काकलीमारचयन्ति । काकल्यादि सङ्गीतशास्त्रादवगन्तव्यम् । काकलीकेति 'नद्यतश्च' इति कप् । शब्दायितुं, 'शब्दवैर-' इति क्यङ् ॥