पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


सर्वस्यास्य ग्राहकादेद्वैतप्रपञ्चस्यात्मानवबोधमात्रोपादानस्य स्वयं सेडुमशक्यावादात्मसिद्धेश्चानुपादेयत्वात् ।
 आत्मनश्रेनिवार्यन्ते बद्धिदेहघटादयः ।
 षष्टगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥ १४ ॥
कुत्ता न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् ।
 नित्यां संविदमाश्रित्य स्वत:सिद्धामविक्रियाम् ।
 सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः॥११५॥
यस्मान्न कयाचिदपि युक्तयात्मनः कारकावं क्रियावं पकलच चापपद्यत तस्मादात्मवस्तुयाथात्म्यानवबाधमात्रापादानावान्नभसीव रजोधूमनुषारनीहारनीलाचाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकपफलात्मकसंसारोऽहम्ममत्वयलेच्छादिमिथ्याध्यास एवेति सिद्धमिममर्यमाह ।


 बुद्यादिद्वैतप्रपञ्चस्यात्मव्यतिरिक्तासाधकत्वात्तस्य जडस्य स्वतःसिऋद्यनुपपत्तेरात्मचैतन्यस्य जडं प्रति संक्रमयितुमशक्यत्वेन तस्मादपि सिद्धेरुपपादयितुमशक्यत्वाजडस्य मिथ्यात्वं बलादापततीत्याह सर्वस्येति । आत्मनश्चेदिति । आत्मनः स्वरूपत्वेन तदीयत्वेन च बुद्धयाद्यस्तस्मान्निवार्यन्ते चेदसत्कल्पा भवन्तीत्यर्थः ॥ ११४ ॥

 ननु बुद्धद्यादेद्वैतप्रपञ्चस्यापरोक्षतया प्रतिभासमानस्य कथं षष्टगोचरकल्पत्वमित्याक्षिपति कुत इति । परिहरति यस्मादिति । अपरोक्षतया स्वत:प्रकाशमानसंविदैक्याध्यासाद्धीवृत्तीनां सिद्धिरापरोक्ष्यं तत्र प्रतिबिम्बत्वाञ्च घटादीनामपरोक्षप्रतिभासो न तु वास्तवस्तस्मात्षष्टगोचरकल्पत्वं युक्तमित्यर्थः ॥ ११५ ॥

 प्रपञ्चमिथ्यात्वमुपसंहरति यस्मान्न कयाचिदपीत्यादिना । यथोक्तात्मनि क्रियाकारकादिशून्य आत्मनीत्यर्थः । अहंमिथ्याभिशापेनेति। अवि-