पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|center=

१०७

लब्धात्मलाभस्य सेत्स्यत आश्रयस्याश्रयि भवति । तदनपेक्षस्य च तस्य नि:स्वभावावात् । एतेभ्य एव हेभ्यो नानामविषयमज्ञानं सम्भवतीति ग्राह्यमम् । एवं तावनानात्मनोऽज्ञानित्वं नापि तद्विषयमज्ञानम् । पारिशेष्यादामन एवास्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् ।

  • सोऽहं भगवो मन्त्रविदेवास्मि नात्मविदि'ति श्रुतेः ।

पेक्षस्यानात्मन आकारान्तरमस्ति येनाज्ञानाश्रयत्वमुपपद्येतेत्याह तदनपेक्षस्य चेति । ननु माभूदज्ञानस्यानात्माश्रयो विषयस्तु किं न स्यादित्यत आाह एतेभ्य इति । विषयस्याप्याश्रयवदइज्ञानस्वरूपघटकत्वादज्ञानात्मकस्य चानात्मनोऽज्ञानवदेव तद्विषयत्वेन घटकत्वायोगात्तमसीव तमोन्तरस्य तत्रातिशयत्वाभावादज्ञानं विनापि तद्वभासकज्ञानानुदयादेव तदनवभाससिद्धेरशानकार्यत्वादेव तस्य रूप्यादिवदज्ञाननिवर्तकसम्यगज्ञानविषयत्वायोगात्पूर्वमेवाश्रयविषयधटिततया सिद्धादज्ञानात्सेत्स्यतः पूर्वसिद्धस्य विषयभावायोगात्सम्यग्ज्ञाननिरसनीयाकारातिरिक्ताज्ञानाविषयत्वयोग्याकारान्तरासम्भवाञ्च नानात्मविषयमझानं सम्भवतीत्यर्थः । पारिशेष्यादात्माश्रयमात्मविषयं चाज्ञानं सिद्धमित्युपसंहरति एवं तावदिति । अनुभवसिद्धं चैतदित्याह तस्येति । आगमोऽप्यत्र प्रमाणमित्याह सोऽहमिति । अनात्मनोऽज्ञानाश्रयविषयत्वयोरभिहितदोषाणामात्मन्यसम्भवादप्येवमेवाभ्युपेयमित्याह न चेति । आत्मनश्चेतनत्वेनानात्मवदज्ञानस्वरूपत्वाभावादज्ञानाश्रयत्वं सम्भवतीत्यर्थः । अज्ञानजन्योऽतिशयोऽप्यात्मनि सम्भवतीत्याह अतिशयश्चेति । स्वयप्रकाशत्वान्नित्यशुद्धबुद्धाद्वितीयाकारेण प्राप्तप्रकाशस्याप्रकाशत्वं तद्विपरीतस्फुरणं च ज्ञानाविपरिलोपः सोऽप्यात्मनि सम्भवतीत्यर्थः । तथापि तस्य कूटस्थत्वादागन्तुकमज्ञाननिवर्तकं सम्यग्ज्ञानं नोपपद्यत इत्यत आह ज्ञानप्राप्तिश्चेति । तत्र हेतुः तस्येति । अविद्यातत्कार्यान्तःकरणादिवृत्तिषु