पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


मित्तत्वात्तद्विभागस्य सपत्मतेव रज्ज्वाः । तस्मात्तदपनुतौ
द्वैतानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य । अतो वाक्यव्याख्यानायाध्याय आरभ्यते ।
तत्र यथोतेन प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः कृतान्वयव्यतिरेकः ।
 यदा ना तत्त्वमस्यादेर्बह्मास्मीत्यवगच्छति ।
 प्रध्वस्ताहम्ममो नैति तदा गीर्मनसोः सृतिम् ॥ १ ॥


रम्भ उपपन्न इत्यभिप्रेत्योपसंहरति तस्मादिति । भवत्वेवं तथापि द्वितीयाध्यायोक्तयुक्तिभिरेव द्वैतस्य मिथ्यात्वावधारणादात्मनश्च तदधिष्टानस्य सत्यतयाधिगतत्वात्तत एवानर्थद्वैतस्य नित्यनिवृत्त्युपपत्तेः किं वाक्यव्याख्यानेनेति तत्राह तदपनोदश्चेति । युक्तीनां प्रमाणानुग्राहकतया स्वातन्त्र्येणानिश्धायकत्वाद्वाक्यादेव सम्यग्ज्ञानद्वारेण तदपनोद् इति भावः । अवधारणेनानुमानादिप्रमाणान्तरं व्यावर्तयति । ननु तर्हीयमेवाध्याय आारभ्यतां किमतीतेन द्वितीयाध्यायेनेत्यत आह तत्पदेति । तस्मिन्वाक्ये यानि पदानि ये च पदार्थास्तानि प्रसिद्धलक्षणागुणवृत्तिभिस्तांश्चतुर्विधान्वयव्यतिरेकाभ्यामभिजानत एव भवति वाक्यार्थशानमतस्तत्प्रतिपाद्को द्वितीयोऽध्यायो ऽस्याध्यायस्य हेतुरतोऽनन्तरं हेतुमतोऽस्यारम्भ उपपन्न इति भावः । यद्वा । वाक्यादेव चेत्तदपनोदो वाक्यमेवोच्यतां किं तत्र पदार्थनिरूपणेन वक्ष्यमाणेनेति तत आह तत्पदेति । एवं सप्रयोजनत्वादनवगतार्थत्वाच्चाध्यायारम्भमुपपादितमुप संहरति अत इति । चिकीर्षितव्याख्यानप्रयोजनप्रदर्शनपरमुत्तरश्लोकमधिकारिविशेषाकाङ्कां पूरयन्नवतारयति तत्रेति । यदा नेति । ना पुरुषः प्रध्वस्ताहंमः शोधिततत्त्वंपदार्थो भूत्वा तत्त्वमस्यादिवाक्यादहमस्मि परं ब्रह्मति वाक्यार्थमवगच्छति तदा गीर्मनसोर्वाडवानसयोः सृतिं नैति न प्रतिपद्यते सर्वव्यवहारातीतो भवतीत्यर्थः ॥ १ ॥