अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः ।
एकेनैव सता संश्रय सन्त्रज्ञातो भवेततः ॥ ७ ॥
सन्नज्ञातो भवेतत इत्युक्तमधस्तनेन शोकेन कोऽसौ
सन्नज्ञात इत्यपेक्षायां तत्स्वरूपमतिपादनायाह ।
ममित्सायां य आभाति स्वयं मातृप्रमाणयोः ।
स्वमहिम्ना च यः सिद्धः सोऽज्ञातायोंऽवसीयताम् ।
अत्र केचिदाहुः । यििकञ्चिदिह वाक्यं लौकिकं वैदिकं
वा तत्सर्व संसर्गात्मकमेव वाक्यार्थे गमयति । अतस्तःत्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रहोति विज्ञाय तावनिदिध्यासीत यावदवाक्यार्थात्मकः मत्यगात्मविषयो
कारस्य चानुवादायोगाज्ज्ञानाभावाविलक्षणभावरूपाशानेनावृत इत्याह अज्ञात एवेति । ननु सर्वस्याज्ञातत्वे तद्विषयप्रमाणेन विना तन्निवृत्यसम्भवादात्मवत्प्रमेयत्वं सर्वस्य प्रसज्यत इत्याशङ्कय सर्वविशेषानुगतसद्भावस्यैवाज्ञातत्वात्प्रमेयत्वमपि तस्यैवेत्याह एकेनैवेति ॥ ७ ॥
भवत्वेवंभूतमज्ञानं तस्य कथं प्रतीतिरित्यत आह प्रामित्सायामिति । पदार्थानां प्रमित्सादशायां यः प्रमातृप्रमाणयोः प्रमातरि प्रमाणे च स्फुःरति प्रमाता स्फुरति प्रमाणमिति स्फुरणात्मना योऽवभासते तद्भावे च तद्भावसाक्षितया सुषुत्यादौ स्वभावादेव स्फुरति सोऽयमशातोऽर्थः । तेन च स्वतःसिद्धसाक्षिचैतन्यसिद्धमझानं प्रमाणनिवत्र्यस्य प्रमाणसिद्धत्वानुपपत्तेरित्यर्थः ॥ ८ ॥
तत्त्वमस्यादिवाक्याद्वाक्यार्थतां प्रतिपद्यत इति यदुक्तं तदयुक्तमुपायान्तरादवाक्यार्थप्रतिपत्तेरित्याक्षिपति अत्र केचिदाहुरिति । शाब्दस्य संसर्गबुद्धिजनकत्वस्वाभाव्यान्न तेनावाक्यार्थप्रतिपत्तिरित्यर्थः । कुतस्तहवाक्यार्थप्रतिपत्तिरित्यत आह अत इति । शाब्दझानाभ्यासजानिततृतीयज्ञानादेवावाक्यार्थप्रतिपत्तिरित्यर्थः । वाक्यजं ज्ञानं मोक्ष-