पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


उतै सामानाधिकरण्यं विशेषणविशेष्यभावश्च संक्षेपतो
 कूटस्थबोधप्रत्यलक्रमनिमित्तं सदात्मनः ।
 बोधृताहंतयोर्हतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११ ॥
बुद्धेः कूटस्यबोधप्रत्यत्कनिमिते बोधृताप्रत्यले ये वसाधारणे तयोर्विशेषवचनम् ।


धीयमानतत्पदार्थेनाद्वयानन्दलक्षणेन विशेषणात्तद्विरुद्धदुःखित्वं निरस्यते तद्वत्परोक्षत्वेन प्रतीयमानस्य तत्पदार्थस्य विशेष्यवाचिना त्वंपदेन न्निधेस्तत्पदपारोक्ष्यव्यावृत्त्या प्रत्यक्ता भवति तत्र कुतः पौनरुक्त्यं कुतश्चाखण्डाथप्रतिपत्तिरित्यर्थः । यद्वा । त्वम्पदेन त्वंश्शब्दः पदं यस्य स त्वम्पदस्तेन त्वमर्थेन विशेषणादित्यर्थः ॥ १० ॥

 सामानाधिकरण्यं चेत्यस्मिन्सूत्रश्लोकेक संक्षेपतस्तावत्पूर्वाध व्याख्यातः । अथेदानीमुत्तरार्धव्याख्यानं क्रियत इत्याह उक्तमिति । उक्तअ रत्रापि सामानाधिकरण्यविशेषणविशेष्ययोर्विशेषो व्याख्यात इत्यभिप्रेत्य संक्षेपत इत्युक्तम् । कूटस्थेति । गिरिश्रृङ्गवन्निश्चलतया तिष्ठतीति कूटस्थः । कूटस्थश्चासौ बोधश्चेति कूटस्थबोधः । स चासौ प्रत्यकेति कूटस्थबोधप्रत्यक् तस्य भावस्तत्वं । तदिदं कूटस्थबोधप्रत्यक्त्वमात्मनो लक्ष्यमनिमित्तं निर्हतुकं स्वाभाविकमत एवात्मनः सदास्तीत्यर्थः । यद्धा । सदात्मनः परमार्थस्यास्तीत्यर्थः । भवत्वेवमेतावता प्रकृते लक्ष्यलक्षणव्याख्याने किमायातमित्यत आह बोदृतेति । प्राकृताया बुद्धेः स्वभावतो बोधश्शून्यायाः कूटस्थबोधो बोद्धताया हेतुर्वह्निरिवायसोदगधृतायास्तथात्मनः प्रत्यक्त्वं च पराचीनाया बुद्धेरहन्तायाः पराग्व्यावृतरूपताया हेतुः । तेन हेतुहेतुमलुक्षणेन सम्बन्धेन बुद्धिगतबोदृताहन्ताभ्यामात्मा लक्ष्यते । तदेवंबुद्धिविशिष्टस्य त्वम्पद्वाच्यस्य लक्षणत्वं केवलस्य लक्ष्यत्वं चोपपन्नमित्यर्थः ॥ ११ ॥

 ननु बुद्धेबदृताप्रत्यक्त्वे यदि प्रत्यकैतन्यगतबोदृताप्रत्यक्त्वनिमित्ते