पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
तृतीयोऽध्यायः ।

 बोदृताकर्तृताबुद्धेः कर्मता स्यादहंतया
 तयोरैक्यं यथा बड़ी पूर्वयोरेवमात्मनि ॥ १२ ॥
यथा बुद्दौ पूर्वयोरेवमात्मनीत्यतिदेशेन बद्धिसाधम्र्यवि
 धर्मधर्मिावभेदोऽस्याः सोऽपि नैवात्मनो यातः ।
 प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसम्भवात् ॥ १३ ॥
भेदहेत्वसम्भवं दर्शयन्नाह ।


स्यातां तर्हि बुद्धिगतबोदृत्वप्रत्यक्त्वयोरात्मगतबोट्टत्वप्रत्यक्त्वाभ्यां विशेषो वाच्यः । अन्यथा हेतुहेतुमद्भावायोगादित्याशङ्कय बुद्धेरसाधारणे ये बोदृत्वप्रत्यक्त्वे तयोर्विशेषमाह बुद्धेरिति । बोदृतेति । बुद्धेबोंनाम विविधविषयाकारविज्ञानपरिणामकर्तृत्वं न त्वात्मवत्कूटस्थबोधरूपता । तस्याः प्रत्यक्ता त्वहंतयाहंरूपेण व्यवधानेन चैतन्यं प्रति कर्मता स्यान्न त्वात्मन इवाशेषविशेषव्यावृत्तं निरुपचरितं प्रत्यक्त्वं कतिपयदेहेन्द्रियादिविषयापेक्षया तस्याः प्रत्यक्त्वादित्यर्थः । तर्हि बुद्धिगतयोबद्धताप्रत्यक्त्वयोरत्यन्तभेद्वदेवमात्मनीत्याशङ्कय नेत्याह तयोरिति । बुद्धेरपीह बोद्धतैव प्रत्यक्त्वं प्रतियोगिनोबाँध्याकारबाह्याकारयोभेदाद्भिन्नवढ्यपदिश्यते । तद्वदात्मन्यपि हि पूर्वयोर्बुद्धिगतबोदृत्वादिहेत्वोः कूटस्थबोधप्रत्यक्त्वयोर्न वास्तवभेद इत्यर्थः ॥ १२ ॥

 यथा बुद्धेर्वोदृताप्रत्यक्त्वे एवं कूटस्थबोधप्रत्यक्त्वयोः परस्परमात्मनीत्यतिदेशादात्मा धम ते च धर्माविति भेदशङ्कायां तन्निरासायोत्तरश्लोक इत्याह यथा बुद्धाविति । धर्मधर्मित्वभेदो वेद्याया बुद्धेरेव प्रयुज्यते । आत्मनस्त्ववेद्यस्य सिद्धान्तैकदेशिभिरभ्युपगतत्वेन सम्भावितो ऽपि स भेदो न सम्भवतीति यतोऽतः प्रत्यग्ज्योतिरेकरसं भेदज्ञानसामयभावादित्यर्थः ॥ १३ ॥

 हेत्वसिद्धिमाशङ्कयाह भेदेति । बोधप्रत्यक्त्वयोराकारभेदानुपलम्भातयोरन्योन्यव्यभिचारादर्शनाञ्च भेदहेतुनै सम्भवतीत्यर्थः । अत्र वैधम्र्य-