पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


तयोः कटस्यपरिणामिनोरात्मानवबोध एव सम्बन्धहेतुर्न पुनर्वास्तवः कश्चिदपि सम्बन्ध उपपद्यत इत्याह ।
 सम्यक्संशयमिथ्यावैड़ीरेवेयं विभज्यते ।
 हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २० ॥
कुतः कूटस्यात्मसिद्धिरिति चेद्यतः ।
 न हानं हानमात्रेण नोदयोऽपीयता यतः ।
 तसिद्धिः स्यात् तडीने हानादानविधर्मके ॥ २१ ॥


ष्ठतेः प्रयोगो न तथा तिष्ठन्ति महीभृत इति किन्तु स्वभावसिद्धाचलत्वविवक्षया तद्वदित्यर्थः ॥ १९

 ननु लक्ष्यलक्षणयोरात्माहङ्कारयोः सम्बन्धोऽस्ति वा न वा । अस्ति चेदात्मनः सविशेषत्वं नास्ति चेन्न लक्ष्यलक्षणभाव इत्याशङ्कय मैवमाध्यासिकसम्बन्धाभ्युपगमेन दोषद्वयपरिहारादित्याह तयोरिति । सम्यगिति । सम्यग्धीः संशयधीमिथ्याधीरियेवमादिभिर्धर्मेधरेव ज्यते विशेष्यतेऽतस्तेषां धीधर्माणामेव हानोपादानता सदसत्वं स्यात्तत्साक्षिण्यात्मनि मोहादनाद्यशानवशादारो प्यते ततो न वस्तुतः साविशेषत्वं नापि सम्बन्धाभावेनात्मनो लक्ष्यत्वाद्यभाव इत्यर्थः ॥ २०

 बुछुपाधिसम्बन्धमन्तरेणात्मनोऽपि बोडूत्वाद्यदर्शनात्कूटस्थत्वं सिध्यतीति शङ्कोत्तरत्वेन श्लोकमवतारयति कुत इति । बुद्धितद्वत्तीनां हानमभावस्तत्तावन्न हानमात्रेण सिद्यति तदुद्यस्तत्सद्भावः सोऽपीयतासद्भावमात्रेण न सिध्यति यतस्तयोः सिद्धिस्तद्धीने बुद्धितद्वत्तिरहिते हानोपादानधर्मश्शून्ये साक्षिण्यध्यस्ततया तचैतन्याभासोद्यात्तद्भतविकारमन्तरेण भवति ततो न कूटस्थत्वव्याहतिरित्यर्थः । अथवा यत्सिद्धं तत्प्रमाणेनैव सिद्ध ततः स्वप्रकाशत्वं नात्मनः सम्भवतीति शङ्कोत्तरत्वेन श्लोकमवतारयति कुत इति । हानोपादानादीनां जडत्वेन स्वयं सेद्धदुमशक्यत्वाचैतत्स्वभावानालिङ्गितस्वयंप्रकाशात्मनिमित्तैव तेषां सिद्धिरिति स्वयंप्रकाशत्वमात्मनः सम्भवतीत्य थः २१ ॥