पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
तृतीयोऽध्यायः ।


यत एतदेवमतोऽनुपादिसितयोरपि तत्वमर्थयोर्विशेषणविशेष्यभावो भेदसंसर्गरहिततावाक्यार्थलक्षणयैवेत्युपसंहारः ।
 इतदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा ।
कश्य पन्नरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् ।
 लक्षणं सर्पवद्रज्वाः प्रतीचः स्यादहं तथा ।
 इतद्वाधेनैनव वाक्यार्थ वेति सोऽपि तदाश्रयात् ॥२७॥


 ननु नीलमुत्पलमित्यादौ विशेषणविशेष्यभावस्य विशिष्टपरता दृष्टा । इहापि तथैवाऽभ्युपगन्तव्यमित्याशङ्कय प्रतिपिपादयिषितार्थविरोधान्मञ्धाः क्रोशन्तीत्यादौ लक्षणपरत्वस्यापि दर्शनादिहापि तथाभ्युपेयमित्याह यत एतदेवमिति । भवतु तथापि किं विशेषणं किंवा विशेष्यमित्यत आह तदो विशेषणार्थत्वमिति । तदस्तत्पदार्थस्य विशेषणत्वं तथा त्वमस्त्वंपदार्थस्य विशेष्यत्वम् । त्वंपदार्थस्याहमिति सामान्यतः प्रसिद्वत्वाद्देहेन्द्रियादिविशेषेषु च विप्रतिपत्तेरद्वितीयब्रह्मात्मावगतित एव पुरुषार्थपर्यवसानाजिशासानिवृत्तेस्त्वंपदार्थस्तत्पदार्थेन विशिष्यते । तत्र च विरोधस्फूत पदार्थाभ्यामखण्डैकरसः प्रत्यगात्मा लक्ष्यत इत्यर्थः । यद्वा । तत्त्वमर्थयोरुभयोरप्यन्योन्यापेक्षया विशेषणत्वं विशेष्यत्वं च भवति त्वमो विशेषणार्थत्वं विशेष्यत्वं तदस्तथेत्थस्याप्युपलक्षणार्थत्वादस्य श्लोकस्येत्यर्थः ॥ २६ ॥

 ननु गङ्गायां घोषः प्रतिवसतीत्यादौ गङ्गाशब्दस्य तीरलक्षकत्वेन तद्धाच्यस्य जलप्रवाहस्य नाविवक्षितत्वं विशिष्टतीरावगतिप्रयोजकत्वाऋापि विरूद्धताधिनाभावसम्बन्धात् । अत एव न लक्ष्यबुद्धया निरस्यमानत्वामिह पुनरहङ्कारस्य लक्षकत्वे त्रितयमपि नास्त्यपुमर्थत्वेनाविवक्षितत्वात् । अनृतादिस्वभावेन विरुद्धत्वालुक्ष्यज्ञानाडाध्यत्वाञ्च तत्कथमस्य लक्षकत्वमित्याक्षिपति कथं पुनरिति । अत्रोत्तरमाह लक्षणमिति ।