पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 अनादृत्य श्रुतिं मोहादतो बौछास्तमस्विनः ।
 आपेदिरे निरात्मवमनुमानैकचक्षुषः ॥ ३४ ॥
न चानादरे कारणमस्ति यस्मात्सर्वत्रैवानादरनिमित्तंप्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा विपरीतम
तिपादनं वा संशयितप्रतिपादनं वा न वा प्रतिपादनमिति । न चैतेषामन्यतमदपि कारणमस्ति । यत आह ।
 मानान्तरान्नवष्टब्ध निदुःख्यात्मानमञ्जसा ।
 बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५ ॥
न च संशयितव्यमवगमयति । यतः ।


मिति ॥ ३४ ॥

 प्रमाणभूतस्य वाक्यस्य लोके मूलप्रमाणापेक्षाद्दर्शनाद्वेदस्यापैौरुषेयतया च तदसम्भवात्तत्प्रतिपादितेऽर्थेऽस्माकमनाद्र इति सुगतमतमाशङ्कयानादरे कारणाभावान्मैवमित्याह न चेति । कुतोऽनादरे कारणं नास्तीत्याशङ्कय “नद्यास्तीरे फलानि सन्ति’ “वायुर्वे क्षेपिष्टा देवते'त्यादिवत्प्रमाणान्तरासिद्धार्थप्रतिपादनस्य वा “अम्बुनि मज्जन्त्यलाबूनि ग्रावाणः प्रवन्ते” “आदित्यो यूप' इत्यादिवत्प्रमाणान्तरविरुद्धार्थप्रतिपादनस्य वा “स्थाणुर्वा पुरुषो वा को हि तद्वेद् यद्यमुष्मिलोकेऽस्ति वा न वे'त्यादिवद्नवधारितवस्तुप्रतिपादनस्य वा समुद्रघोषभेरीशब्दहुंफड्रौषडित्यादिवदप्रतिपादनस्य वात्राभावादित्याह यस्मात्सर्वत्रैवेति । कुतस्तेषामन्यतमन्नास्तीत्यवगम्यत इत्यत आह यत आहेति। “वायुर्वे क्षेपिष्टा देवता” “आग्निर्हिमस्य भेषजामि'त्यादिवन्मानान्तराधिगतस्याप्रतिपादनान्नानुवादलक्षणमप्रामाण्यमित्यर्थः । मानान्तरानधिगतत्वे हेतुः निर्दू :खीति । अहं दुःखीत्यादिवत्संसारातीतत्वस्य मानान्तरानधिगतत्वादेवादित्यो यूप इत्यादिवद्विपरीतप्रतिपादनलक्षणमप्यप्रामाण्यं नाशङ्कनीयमित्याह आत्मानमञ्जसेति । आत्मनः स्वरूपेणाबाध्यत्वादिति भावः ॥३५॥

 तर्हि संशयितावगमकत्वादप्रामाण्यमित्यत आह न च संशयितव्य-