पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
चतुर्थोऽध्यायः ।

यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते । दृष्टदष्टारमात्मानं तै प्रसिद्वैः प्रमित्सति ॥ ११ ॥ कस्मात्पुनर्हतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बद्विभिरात्मानमनामवन्न वीक्षत इति । उच्यते । चक्षुर्न वीक्षते शब्दमतदात्मावकारणात् । यथैवं भौतिकी दृष्टिनीत्मानं परिपश्यति ॥ १२ ॥ प्रत्यक्षादिप्रमाणस्वाभाव्यानरोधेन तावतदशनकारणमक्तमम् । अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते ।

धीविक्रियासहस्राणां हानोपादानधर्मिणाम् ।

सदा साक्षिणमात्मानं प्रत्यल्कान्वाहमीक्षते ॥ १३ ॥ धक प्नरियं विवेकबुद्धिः किमामन्युतानामनीति । किञ्चातो यद्यात्मनि कूटस्यावव्याघातोऽनामदशिाचात् । अथानात्मनि तस्या अप्यचैतन्यान्न विवकसम्बन्ध इति । उच्यते । दाह्यदाहकतैकत्रेत्युक्तपरिहारात् ।


त्पूर्वे देहादिलक्षणमात्मानमद्राक्षीद्यमिदानीं विवेवकोदये सत्यनात्मेति मन्यते तमद्राक्षीदित्यन्वयः । तैः प्रसिद्वैः करणैः प्रमातुरपि साक्षिणं प्रमातुमिच्छति यस्मात्तस्मान्न प्रतिपद्यत इति सम्वन्धः ॥ ११ ॥ इन्द्रियाणामनात्मविपयत्वे कारणं प्रश्नपूर्वकं दर्शयति कस्मादित्यादिना । यथा चक्षुः शाब्दं न पश्यत्यतदात्मत्वकारणादशब्दगुणद्रव्यप्रकृतिकत्वादेवं भौतिकान्तःकरणजनितं विज्ञानमन्तःकरणाप्रकृतिकमात्माने न पश्यतीत्यर्थः ॥ १२ ॥ नाहमीक्षत इति । आत्मनः समस्तबुद्धिवृत्तिभावाभावसाक्षितयाविपयत्वेन प्रत्यक्त्वादहमन्तःकरणं विपयिणं न पश्यतीत्यर्थः ॥ १३ ॥ एवं द्रष्टदृश्यादिविवेकेनात्मानात्मविवेको दर्शितः । सेयं विवेकबुद्धिः किमाश्रयेत्याक्षिप्य समाधत्ते क पुनरित्यादिना । अनात्मदशित्वाद्ना-