पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
चतुर्थोऽध्यायः ।

स्वभावत्वान्निष्फल उपदेशः । एवम्भयत्रापि दोषवत्वा* अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्भहस्तथा” । इति पक्षामुपादाय पूर्वपक्षं निशाय च ॥ २० ॥ तचेदमविवेकात्स्वतो विवितात्मने तत्वमसीत्युपदिष्टम् युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः । यतोऽनभिज्ञे वाक्यं स्याद्वधिरेष्विव गायनम् ॥ २१ ॥


यति अविविच्येति । उभयमिदमनिदंरूपमात्मानात्मलक्षणं वस्त्वविविध•च्याँध्यस्यान्तःकरणकञ्चुकं परिधायाहमिति व्यवस्थितं प्रत्यगात्मानमुद्दिश्य यदि तत्त्वमसीत्युपदिशेच्छास्त्रं तथा सत्युपदेशः सम्भवतीति स्वीकारः स्यात्केवलानात्मनः केवलपरमात्मनश्धोपदेशासम्भवस्य द्शितत्वात्तौ पक्षौ पूर्वपक्षत्वेन निराकृत्येमं च पक्ष सिद्धान्तत्वेन स्वीकृत्य भगवत्पूज्यपादेरुदाहारीति सम्बन्धः । तदित्थं क पुनरियं विवेकवुद्धिरिति पूर्वपक्षीकृत्य दाह्यदाहकतैकत्रेति न्यायेन बुद्धावेव विवेकोऽयमिंति यदस्माभिरुक्तं तदेतद्भाष्यकारेरपि निदशितमिति भावः ॥ २० ॥ एवं “ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदि'त्यादिवाक्यतात्पयलोचनया परमात्मन एवान्तःकरणकञ्चकस्य तदविविक्तस्योपदेश इति दशितम् । तह्यत्मानात्मविवेकान्वयव्यतिरेको व्यर्थावित्याशङ्कयाह तखेदमिति । स्वतो वाक्यप्रवृत्तेः प्रागेवान्वयव्यतिरेकाभ्यां कार्यकारणसङ्कगताद्विविक्तो विवेचित आत्मा यस्य तस्मै तदिदं ब्रह्मात्मत्वं तत्त्वमसीत्युपदिष्टं तस्मादन्वयव्यतिरेकयोर्न वैयथ्र्यमित्यर्थः । तर्हन्वयव्यतिरेकाभ्यामेव विमुक्तत्वात्किमर्थमुपदेश इत्यत आह अविवेकादिति । अविवेकस्यानवबोधस्याझानस्य स्थितत्वात्तन्निराकरणायोपदेश इत्यर्थः । विपक्षे दोषयमाह यतोऽनभिज्ञ इति । पदार्थानभिज्ञस्य वाक्यं वाक्यार्थबोधवकं न स्यादित्यर्थः ॥ २१ ॥