पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

सवस्योतावादुपसंहारः । परमार्थात्मनिष्ठं यत्सर्ववेदान्तनिश्चितम् । तमोऽपनुट्टियां ज्ञानं तदेतत्कथितं मया ॥ ५२ ॥ नेहात्मविन्मदन्योऽस्ति न मतोऽज्ञोऽस्ति कश्चन । इत्यजानन्विजानाति यः स ब्रह्मविदुक्तमः ॥ ५३ ॥ एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्य माहोस्विन्मुक्तप्रग्रहतेति । उच्यते ।


इदानीं प्रकरणमुपसंहरति सर्वस्येति । सर्ववेदान्तनिश्चितं स्वान्तान्धकारनिवर्तकं यज्ज्ञानं परमार्थवस्तुविषयं तदेतदस्मिन्प्रकरणे मया कथितं नातः परं ज्ञातव्यमवशिष्यत इत्यर्थः ॥ ५२ ॥ सांख्यानामिव नानात्मवाद्शङ्कानिरासार्थ पुनरपि सङ्कह्योक्तमर्थ द्दर्शयति एतावदिति । विजानातीत्युक्त ज्ञानपरिणामित्वं प्राप्तमित्यत आह अजानन्निति । अपरिणामिना कूटस्थचैतन्येनैवानुभवतीत्यर्थः । यद्वा । स्वात्मानं विजानाति चेत्तस्य कर्मत्वं कर्तृत्वं च स्यादिति विशिनष्टि अजानन्निति । वृत्तिज्ञानात्कर्मत्वेनाजानन्नपि स्वरूपचैतन्येन स्वयंप्रकाशतयानुभवतीत्यर्थः । सोपाधिकचैतन्यानामुपाधिप्रधानत्वादुपाधिभेदवदेव परिकल्पिततया ज्ञानाज्ञानाश्रयत्वायोगादपास्तसमस्तोपाधेरद्वैतचैतन्यस्यैव मम तदाश्रयत्वमिति भावः । इह लोके मत्तोऽन्यः कश्चिदात्मविषयाज्ञानाश्रयो नास्ति नापि तद्विषयज्ञानाश्रयः किंत्वहमेक एव ज्ञानाज्ञानाश्रयो मत्तोऽन्यस्य चैतन्यस्याभावादित्यद्वैतमात्मानं वृत्तिज्ञानेनाजानन्त्स्वरूपचैतन्येन स्वयंप्रकाशतया विजानाति स ब्रह्म[ावदुत्तम इत्यक्षरयाजना ॥ ५३ ॥ एवं तत्त्वविचारं समाप्य तत्त्वविदश्चयमिदानीं निरूपयन्कि ब्रह्मविदा वर्णाश्रमधर्मेषु प्रवतितव्यमुत तेभ्यो निवतितव्यमथवा स्वच्छ-