पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
प्रथमोऽध्यायः ।

वृनिमित्तमिति । किञ्चातो यद्येवं शृणु । यदि ताव
द्यथावस्थितवस्तुसम्यग्ज्ञानं प्रमाणभूतं लौकिकमागमिकं
वा प्रवृतिनिमित्तमिति निश्चयो निवृतिशास्त्रं च नाभ्युपगम्यते तदा हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिकप्रमाणोपातकर्मानुष्ठानत्यागिावाच ।
अथ मृगतृष्णिकोदकपिपासुप्रवृतिनिमितवदयथावस्तुभ्रान्तिविज्ञानमेव सर्वप्रवृतिनिमित्तं तदा वद्यामहे वयं
हताः स्थ यूयमिति ।
 हितं सम्प्रेप्सतां मोहादहितं च जिहासताम् ।
 उपायान्प्राप्तिहानार्थान् शास्त्रं भासयतेऽर्कवत् ॥२९॥


तमित्यर्थः । संदिग्धं सप्रयोजनं च विचारमर्हतीति न्यायात्संदेहप्रद्र्शनानन्तरं प्रश्क्षपूर्वकं प्रयोजनं दर्शयति किञ्चात इत्यादिना । यदि प्रमाणभूतं सम्यग्ज्ञानमेव प्रवृत्तिनिमित्तं निश्चीयते तदा कर्मत्यागिनो वयं हता इत्यर्थः । प्रमाणभूतत्वे हेतुः सम्यग्ज्ञानमिति । सम्यग्ज्ञानत्वे हेतुः यथावस्थितवस्त्विति । ननु कर्मसु सम्यग्ज्ञानात्प्रवृत्तौ किमिति कर्मत्यागिनां हतिः सर्वसंन्यासेऽपि सम्यग्ज्ञानेनैव प्रवृत्तिसंभवात्तस्यापि निवृत्तिशास्त्रमूलत्वादित्याशङ्कयाह निवृत्तिशास्त्रं चेति । यावज्जीवादिवचनविरोधाद्नधिकृतान्धपङ्ग्वादिविषयत्वोपपत्तेनिवृत्तिशास्त्रं नाभ्युपगम्यत इत्यर्थः । कुतस्तेषां हतत्वमित्यत आह भ्रान्तिविज्ञानेति । आत्मनोऽशनायाद्यतीतत्वे कर्तृत्वाद्यभावे कर्मत्यागे च मूलप्रमाणाभावाभिप्रायेण भ्रान्तिविज्ञानमात्रावष्टम्भादित्युक्तमलौकिकै प्रमाणं यावजीवमग्निहोत्रं जुहुयादिति वैदिकं वचनं तेन विहितकर्मानुष्ठानपरित्यागित्वात्तेषां हतिरित्यर्थः । अथेति । यथा मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तं मिथ्याज्ञानं तथा सर्वकर्मसु प्रवृत्तिनिमित्तं मिथ्याज्ञानमे वेति यदि निश्चीयते तदा कर्मत्यागिनो वयं वर्धामहे कर्मणि तु प्रवृत्ता यूयं हता भ्रान्तिज्ञानप्रापितप्रवृत्तिमत्त्वादित्यर्थः । एवं संदेहं सप्रयोजनं