पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
प्रथमोऽध्यायः ।


अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणत्वसूनी
कृतसम्प्रतिकानि चरितार्थानि सन्ति ।
 प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुञ्चितः ।
 कृतार्यान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९ ॥
यतो नित्यकर्मानुष्ठानस्यैष महिमा ।
 तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः ।
 नित्यं नैमितिकं कर्म सदैवात्मविशुद्धये ॥ ५० ॥
यथोतेऽर्थे सर्वज्ञवचनं प्रमाणम् ।
 “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
 योगारूढस्य तयैव शम” एवेति च स्मृतिः ॥ ५१ ॥


 एवं शुद्धान्तःकरणस्योत्पन्नवैराग्यस्य सर्वकर्मसंन्यासेऽधिकार इत्यभिप्रेत्याह अतःपरमिति । “यद्याद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितमि'ति वचनात्कर्मप्रवृत्तिनिमित्तस्य कामस्य निवृत्तत्वात्कर्माण्यवसिताधिकाराण्युच्यन्ते । प्रत्यक्प्रवणत्वसूनौ कृतसंप्रतिकानि संप्रतिनर्नाम स्वव्यापाराणां पुत्रे सम्प्रदानं समर्पणमत एव चरितार्थानि कृतप्र योजनान्यस्तमायान्तीति श्लोकगतेन पदेन सम्बन्धः । प्रत्यगिति । कमर्माणि बुद्धेः शुद्धयुत्पादनद्वारेण तस्याः प्रलयकप्रवणतामुत्पाद्य कृतार्थानि सन्त्यस्तमायान्तीत्यर्थः ॥ ४९ ॥

 एवं कर्मणामन्तःकरणशुद्धिद्वारेण प्रत्यक्प्रवणताहेतुत्वादस्येव मुक्तावुपयोग इत्युपसंहरति यत इति ॥ ५० ॥

 कर्मणां मुक्ताचारादुपकारकत्वं न तु साक्षादित्युक्तम् । तस्मिन्नर्थे भगवद्वचनं प्रमाणमित्याह यथोक्त इति । आरुरुक्षोः सम्यग्दर्शनसाधनं ध्यानयोगमारोढुमिच्छोस्तदनुष्ठानासमर्थस्य कर्म नित्यं नैमित्तिवकं रणं तदनुष्ठानसामथ्र्योत्पादकमुच्यते श्रुतिभिः स्मृतिभिश्ध । योगमारू-