पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

यथोक्तोपपतिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं नावशेषितमित्यतः प्रतिपतिकर्मवापूर्वपक्षपरिहाराय यकिञ्चिद्वक्तव्यमित्यत इदमभिधीयते ।
 “मुतेः क्रियाभिः सिद्यत्वादि'त्याद्यनुचितं बहु ।
 यद्भाणि तदन्यायं यथा तदधुनोच्यते ॥ ४० ॥
योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते सा
प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् । कर्मणो
हि नितात्मनो द्वाभ्यां प्रकाराभ्यां निवृतिः सम्भवायारिति । तृतीयोऽपि त्यागप्रकारोऽकत्रमावबोधास वात्मज्ञानानभ्युपगमाद्भवता नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि तानीश्वरेणापि केनचिदपि


 केवलकर्मणां ज्ञानसमुचितानां वा मोक्षसाधनत्वस्य निराकरणाज्ज्ञानस्यैव मोक्षसाधनत्वं सिद्धं तत्र किमुत्तरग्रन्थसन्दर्भणेल्याशङ्कय प्रमेयस्योपपादितत्वेऽपि तदुक्तीनामनिराकरणे तत्पक्षो न निराकृत इति मन्दमतीनां शङ्का स्यात्तन्निवृत्तये तत्तदुक्तीनां क्रमेण खण्डनायोत्तरग्रन्थ इत्याह यथोत्क्तति । अतः प्रतिपत्तिकर्मवदिति । उपयुक्तस्य द्रव्यसैयैव स्वयमेव परित्यागे प्राझे “चात्वाले कृष्णविषाणामुत्सृजेदि'ति नियमवन्निराकृतेऽपि पूर्वपक्षे तदुक्तिनिरासायायं प्रयल इत्यर्थः ॥ ८० ॥

 तत्राकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथेति यदुक्तं तत्तावन्निरस्यति योऽयमिति । तत्र किमनुष्ठितानां परित्यागः किं वा तदनुष्ठानस्येति विकल्प्य नाद्य इत्याह कर्मणो हीति । निर्तृत्तात्मनो निष्पन्नस्वरूपस्य । ननु “क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर” इति ज्ञानादपि सर्वकर्मनित्तिः श्रूयते तत्र कथं द्वाभ्यां प्रकाराभ्यामित्युच्यत इत्यत आह तृतीयोऽपीति । भवता तादृशज्ञानानङ्गीकारात्तेन निवृत्तिर्नाभ्युप-