पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


 नोणिमानं दहत्यद्भिः स्वरूपत्वाद्यथा ज्वलन् ।
 तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥ २३ ॥
एकस्यात्मनः कर्मकर्तभावः सर्वथा नोपपद्यत इति
श्रुत्वा मीमांसकः प्रत्यवतिष्ठते । अहम्प्रत्ययग्राह्यत्वाद्धाहक आत्मेति तन्निवृत्त्यर्थमाह ।
 यत्कर्मको हि यो भावो नासौ तत्कर्तको यतः ।
 घटप्रत्ययवतस्मान्नाहं स्याद्रष्टकम्मेकः ॥ २४ ॥


यत्राद्यो वस्तुतो नात्मनो धर्मा भवितुमर्हन्तीत्यर्थः । तत्र हेतुः कर्मत्वेनोपलभ्यत्वादिति । उपलभ्यत्वादित्युक्त प्रत्यगात्मनोऽप्यस्मत्प्रत्ययगोचरतयोपलभ्यमानत्वमस्तीति तद्यावक्र्तनाय विशिनष्टि कर्मत्वेनेति । अहङ्काराद्यो नात्मधर्मा दृश्यत्वात्काश्यदिवत् । सैव प्रतिज्ञापायित्वाद्धस्त्रादिवदिति प्रयोगः । एवमिच्छादीनामनात्मधर्मत्वप्रतिपादःनेन तद्धर्मवतोऽन्तःकरणस्य सूक्ष्मदेहस्यानात्मत्वं साधितमिति द्रष्टव्यम् ॥ २२ ॥

 विपक्षे बाधकमाह वैधम्र्य इति । अहङ्कारादेरात्मधर्मत्वे स्वरूपत्वे दृइयत्वासम्भवोऽपि स्यादित्यत्र कप्रसिद्धदृष्टान्तोऽभिधीयत इत्याह नोष्णिमानमिति । यथा ज्वलन्नाप्यग्ःि स्वरूपभूतं धर्मेभूतं चोष्णिमानं न दहति न ि वेवषयीकरोति स्वरूपत्वाद्धर्मत्वाद्वा तद्वदात्माप्यात्मनः स्वरूपभूतं धर्मभूतं वाहमहङ्कारादिकं न विद्यात्स्वरूपत्वाविशेषाद्वा धर्मत्वाविशेषाद्वेत्यर्थः ॥ २३ ॥

 इदानीं भाट्टमतमाशङ्कय निराकरोति एकस्येत्यादिना । अहम्प्रत्यय आत्मकर्मको न भवात आात्मकतृकत्वाद्धटप्रत्ययवादत्यनुमानमाह यात्कर्मक इति ॥ २४ ॥