पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
द्वितीयोऽध्यायः ।



अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति चोद्य तन्निराकरणाय प्रत्यक्षोपन्यासः ।
 यत्र या दृश्यते द्रष्ट्रा तस्यैवासौ गुणा न तु ।
 द्रष्टस्यं दृश्यतां यस्मात्रैवेयाद्रष्टबोधवत् ॥ २५ ॥
प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतावासस्यमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च विकल्पदूषणाभिधानम् ।
 नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते ।
 अभिन्नावासमत्वाच्च निरंशावादकर्मतः ॥ २६ ॥


 ननु मामहं जानामीत्यात्मनोऽहम्प्रत्ययं प्रति कर्तृत्वकर्मत्वयोः प्रलयक्षानुभवात्तत्कर्मत्वनिराकरणानुमानं कालात्ययापदिष्टमिति शङ्कते ऽत्राहेति । अहमित्यत्रान्तःकरणस्य प्रत्यगात्मदृश्यत्वादहम्प्रत्ययस्यापि तद्रतत्वेनोपलभ्यमानस्य तद्धर्मत्वमेव युक्तं द्रष्टात्मगतत्वे दृश्यत्वानुप पत्तेस्तस्मादन्तःकरणमेवाहम्प्रत्ययसाक्षिणा दृश्यत इत्यनुभवो न त्वात्मा मामहं जानामीत्यनुभवस्यान्तःकरणविशिष्टविषयत्वात्केवलात्मविषय त्वाभावादित्यभिप्रेत्य परिहरति तन्निराकरणायेति । यत्रान्तःकरणे यो ऽहम्प्रत्ययो द्रष्ट्रासाक्षिणा दृश्यते तस्यैवान्तःकरणस्याहम्प्रत्ययो धर्मो भ वति द्रष्टुर्दश्यत्वाद्रष्टस्थत्वे द्रष्टदृश्यत्वायोगात्तस्मादन्तःकरणधर्म एवा सावहम्प्रत्यय इत्यर्थः ॥ २५ ॥

 अतस्तदेव प्रक्रियत इत्यात्मोपलभ्यस्याहङ्कारस्यात्मधर्मत्वमनुपपन्न मिति प्रकारान्तरेण पुनः साध्यत इत्यर्थः । आत्मधर्मश्श्रेदहमप्रत्ययः कि मयमात्मनाधिगम्यते किंवा तदंशेनेति विकल्प्योभयथापि न सम्भवती त्युच्यत इत्याह तत्र चेति । स्वगतस्य गुणस्य स्वग्रहणमन्तरेण स्वगत त्वेन ग्रहणायोगात्स्वस्य च स्वेनाभिन्नत्वादेव ग्रहणानुपपत्तेः स्वांशे