पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


न युगपन्नापि क्रमेणोभयया चैकस्य धर्मिणो ग्राह्यग्राहकाचमुपपद्यत इति प्रतिपादनायाह ।
 द्रष्टचेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता ।
 कालान्तरे चेदृश्यावं न ह्यद्रष्टकमिष्यते ॥ २७ ॥
सन्तु काममन्नामधमा ममत्वादया ययात्तन्यायबलादनात्मतयैव च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसम्बन्धितयैव प्रसिद्धेरहंब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति चेतन्त्र ।
 अहँधर्मस्खभिन्नश्रेदहंब्रहोति वाक्यतः ।
 गौरोऽहमित्यनैकानतो वाक्यं तब्द्यपनेतृ तत् ॥ २ ॥


नापि स्वस्यात्मत्वादेव ग्रहणायोगान्निरंशत्वादेव स्वांशेन स्वस्य ग्रहणमिति वत्कुमशक्यत्वाञ्च । एवमुक्तन्यायेनात्मनः कर्मत्वाभावात्तद्वती ऽपि गुणो न तेन गृह्यत इत्यर्थः ॥ २६ ॥

 ग्राह्यस्य ग्राहकत्वेऽपि किं युगपदेव ग्राह्यग्राहकभावः किंवा क्रमेण । न तावदाद्यो युगपदेव ग्राहकत्वेन परिसमाप्तस्य निरंशास्य तदैव ग्राह्यत्वेनावस्थानायोगात् । नापि क्रमेण तदाग्राहकाभावादेव ग्राह्यत्वानुपपत्तेरित्याह न युगपदिति ॥ २७ ॥

 नन्वस्तु ममत्वयतेच्छादीनामनात्मधर्मत्वं तद्वदहम्प्रत्ययस्यानात्मधर्मत्वमयुक्तं तस्यात्मधर्मत्वं युक्तं प्रसिद्धेरहं ब्रह्मास्मीति विद्यादशायामपि तस्यानुवृत्तेश्चेति शङ्कते सन्तु काममिति । श्लोकेन परिहरति तन्नेति । गौरोऽहमिति सामानाधिकरण्येऽपि यथा गौरत्वं नात्मधर्मस्तथाहमात्मेत्यहम्प्रत्ययस्यात्मसामानाधिकरणयेन प्रसिद्धावपि नात्मधर्मत्वं सिद्यति । अहं ब्रह्मास्मीति तु सामानाधिकरण्यं बाधायां न पुनस्तदेकत्व- विवक्षयेत्यर्थः ॥ २८ ॥