पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
द्वितीयोऽध्यायः ।


कश्यं वाक्यं तब्द्यपनेतृ तदिति । उच्यते ।
 योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव ।
 ब्रह्मास्मीतिधियाशेषामहम्बुडिं निवारयेत् ॥ २९ ॥
अहम्परिच्छेदव्यावृत्तौ न किञ्चिदव्यावृतं तजातमवशिष्यते द्वितीयसम्बन्धस्य तन्मूलत्वात् । अत आह ।
 निवृतायामहम्बुछौ ममधीः प्रविलीयते ।
 अहम्बीजा हि सा सिध्येतमोऽभावे कुतः फणी।॥३०॥
विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या ।
 तमोभिभूतचितो हि रज्ज्वां पश्यति रोषणम् ।
 भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगंस्रजि वीक्षते॥३१॥
अन्नन्वयाच नामधमाऽहङ्कारः ।
 आत्मनश्चेदहंधमों यायान्मुक्तिसुषुप्तयोः ।
 यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ ३२ ॥


 अहं ब्रह्वोति सामानाधिकरण्यवाक्यस्याहम्प्रत्ययव्यपनेतृत्वं प्रश्नपूर्ववकं दृष्टान्तेन प्रतिपाद्यति कथं वाक्यमित्यादिना । स्थाणुः पुरुष इति सामानाधिकरण्यं यथा स्थाणोबधवकं तथाहं ब्रह्मास्मीति सामानाधिवकरण्यमहङ्कारस्य बाधकमित्यर्थः ॥ २९ ॥

 इत्थमहङ्कारस्यात्मधर्मत्वनिराकरणे प्रयोजनमाह अहम्परिच्छेदेति । रज्ज्वज्ञानव्यावृत्तौ सर्पव्यावृत्तिवद्हङ्कारव्यावृत्तौ ममकारव्यावृत्तिरित्यर्थः ॥ ३० ॥

 तमोऽभावे कुतः फणीति प्रसिद्धान्धकारस्याभावे फणिनः सर्पस्याभावो दृष्टान्तत्वेनोपन्यस्त इति शङ्कानिरासाय दृष्टान्तो व्याख्यायत इत्याह विवक्षितेति । अज्ञानाभिभूतचित्तो हि भ्रान्त्या रज्ज्वां रोषणं सर्प पश्यति तस्मात्तमसा विना स्रजि नोरगं वीक्षत इत्यर्थः ॥ ३१ ॥ सुषुप्यादावननुभवाञ्चाहङ्कारस्यानात्मधर्मत्वमवगम्यत इत्याह अन-