पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
द्वितीयोऽध्यायः ।

अस्खनित्यत्वं कमुपालभेमहेि प्रमाणोपपन्नावादिति चेसदाविलुप्तसाक्षित्वं स्वतःसिद्धं न पार्यते ।
 अपहोतुं घटस्येव कुशाग्रीयधियात्मनः ॥ ३६ ॥
एतस्माच्च हेतोरहङ्कारस्यानामधर्मावमवसीयताम् ।
 प्रमाणैश्रावगम्यत्वाद्धटादिवदहंदृशेः ।
 यतो राद्धिः प्रमाणानां स कथं तैः प्रसिध्यति ॥ 3७॥
धर्मधर्मिणोश्रेतरेतरविरुद्धात्मकत्वादसङ्गतिः ।
 धर्मिणश्च विरुद्वत्वान्न दृश्यगुणसङ्गतिः ।
 मारुतान्दोलितज्वालं शैत्यं ना िसिसृप्सति ॥३८॥


 इदानीं सौगतमतमाशङ्कतेऽस्त्विति । निरस्यति तन्नेति । सति देहे तावदात्मनः प्रत्यभिज्ञया स्थायित्वावगमादनित्यत्वे चाकृताभ्यागमकृतविप्रणाशादिदोषप्रसङ्गाज्जातिस्मरणादिदर्शनान्मुख्येऽर्थे बाधाभावात्प्रत्यभिज्ञायाः सादृश्यनिबन्धनत्वकल्पनानुपपत्तेश्च नित्यत्वमात्मनः स्वत:सिद्धं निह्नोतुं न शक्यत इत्यर्थः ॥ ३६ ॥

 प्रमाणैश्धेति । अहमहङ्कारः प्रमेयत्वाद्दशेरात्मनो घटादिवद्भवति यथा प्रमाणगम्यो घटकरकादिरात्मनो धर्मो न भवति तद्वदहङ्कारोऽप्यात्मनो धर्मो न भवतीत्यर्थः । नन्वात्मापि प्रमाणगम्य एवेत्यत आह यत इति । राद्धिः सिद्धिः । प्रमाणानां सिद्धेः प्रागेव सिद्धत्वेनात्मनोऽप्रमा णसाधकत्वान्न प्रमाणाश्रीना तत्सिद्धिरित्यर्थः ॥ ३७ ॥

 पूर्व दर्शनक्रियां प्रत्यात्मनः कर्तृत्वात्तत्कर्मत्वाच्चाहङ्कारस्य न तयोधैर्मधर्मिभाव इत्युक्तम् । इदानीं तु चिदचिद्वपत्वेन शीतोष्णवद्विरुद्धस्वभावत्वान्न तयोर्धर्मधर्मिभाव इत्याह धर्मधर्मिणोश्रेति । यथा शैत्यमग्रेर्धम न भवति विरोधात्तद्वदहङ्कारोऽप्यात्भधम न भवति विरोधादेवेत्यर्थः ॥ ३८ ॥