पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
द्वितीयोऽध्यायः ।

 
उक्तयुतिं दृढीकर्तुमागमोदाहरणोपन्यासः ।
 आर्तमन्यदृशेः सर्व “नेति नेतीति'चासकृत् ।
 वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥ ४२ ॥
 “महाभूतान्यहङ्कार'इत्येतत्क्षत्रमुच्यते ।
 न दृशेद्वैतयोगोऽस्ति विश्वेश्वरम्मतादपि ॥ ४३ ॥
अधुना प्रकृतार्थोपसंहारः ।
 एवमेतद्विरुग्ज्ञेयं मिथ्यासिडमनामकमम् ।
 मोहमूलं सुदुबधं द्वैतं युक्तिभिरात्मनः ॥ ४४ ॥


यमादात्मनोऽपि दृश्यत्वे दृष्टिलोपः स्यात् । तथा च “न हि द्रष्टुर्दष्टरि”त्यादिश्रुतेर्वेयथ्र्य प्रसज्येतेत्यर्थः । ननु जानन्तं मां जानामीत्यनुभवाद्रष्टुरपि दृश्यत्वं दृश्यस्य च द्रष्टत्वमित्याशङ्कयाह स्याचेद्दगेकमिति । तथा साति दृश्यस्य द्रष्टत्वाविरोधाद्रष्टस्वभावतापत्तौ सर्व द्रष्टरूपमेवासीदिति दृश्यशशून्यो द्रष्टेवावशिष्येत तथा चेद्रष्टुरपि दृश्यताविरोधाद्दश्यस्वभावतापत्तौ सर्व दृश्यमेवासीदिति द्रष्टशून्यं जगदेवावशिष्येतेत्यर्थः ॥ ४१ ॥

 उक्तन्यायस्य प्रशिथिलमूलत्वपरिहाराय मूलप्रमाणं दर्शयति उत्क्तयुक्तिमिति । उदाह्रियत इत्युदाहरणं वाक्यं तदुपन्यास इत्यर्थः । आर्तमन्यदिति । “नान्योऽतोऽस्ति द्रटे'त्युपक्रम्य“अतोऽन्यदार्त्तमिति' द्रष्ट्रात्मव्यतिरिक्तस्य सर्वस्य दृश्यजातस्य विनाशित्वेन नित्यात्मधर्मत्वानिराकरणान्नेति नेतीति मूचतमूर्त्तद्धयनिषेधाञ्च सर्वदृश्यासंस्पशित्वमात्मन प्रदर्शयन्ती श्रुतिनपेक्ष्येत्यर्थः ॥ ४२ ॥

 उत्तेऽर्थे स्मृतिरपि प्रमाणमाह महाभूतानीति । महाभूतादिधृत्यन्तं सर्वे क्षेत्रमेवेति भगवताप्युक्तत्वादात्मा समस्तप्रपञ्चशशून्य इत्यवगम्यत इत्यर्थः ॥ ४३

 एवं श्रुतिस्मृतिमूलयुक्तिसद्भावादहङ्कारादिः सर्वोऽपि द्वैतप्रपञ्च अात्मनः सकाशाद्विलक्षण इत्युपसंहरतीत्याहं अधुना प्रकृतार्थेति । हि-