पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
द्वितीयोऽध्यायः ।

अस्याश्च क्षणभङ्गुरवे स्वयमेवामा साक्षी । नहि कूटस्यावबोधमन्तरेण बद्धेरेवाविभवतिरोभावादिसिद्धिद्वितीयोऽध्यायः ।
 परिणामिधियां वृत्तं नित्यावकमद्वगात्मना ।
 षड़ावविक्रियामेति व्या खेनाङ्करो यथा ॥ २ ॥
सत आत्मनश्राविकारिचे युक्तिः ।
 स्मृतिस्वशप्रबोधेषु न कश्चिाप्रत्ययो धियः ।
 दृशाऽव्याप्तोऽख्यातो नित्यमविकारी स्वयंहशिः ॥ ३॥
एवं तावत्पराभ्यपगतप्रक्रियाप्रस्यानेन निरस्ताशेषवि-


 केन तर्हि प्रमाणेन बुद्धेः परिणामित्वमवगम्यत इत्याशङ्कयाह अस्याश्धेति । अस्याः क्षणभङ्गुरत्वे स्वयमात्मैव साक्षी प्रमाणमित्यर्थः । ननु बुद्धिः स्वयमेव स्वभावाभावौ साधयेत्कि साक्षिणेत्याशङ्कय स्वभावस्य स्वग्राह्यत्वे कर्मकर्तृविरोधप्रसङ्गात्स्वाभावस्य स्वयमेव साधकत्वे सुषुस्यभावप्रसङ्गादात्मैव सर्वकल्पनाधिष्ठानतया साधक इत्यपरोक्षत्वमि स्याह नहि कृटस्थेति । यद्वा । बुद्धेः परिणामित्वे तद्विषयस्यात्मनोऽपि परिणामिता स्यादित्यत आह अस्याश्चेति । बुद्धिपरिणामसाक्षित्वाद्ात्मा न परिणामीत्यर्थः । कथं बुद्धिपरिणामसाक्षित्वमात्मन इत्यत आाह न हीति । परिणामिधियामिति । यथावकाशेन व्याप्त एवाङ्करो जायते तद्वन्नित्याक्रमदृगात्मना व्याप्तमेव परिणामिधियां वृत्तं स्वरूपं षड्रावविक्रियां प्राप्तोति तस्मादात्मैव बुद्धिपरिणामसाधक इत्यर्थः ॥ ८२ ॥

 एवं बुद्धेर्विकारित्वमुपपाद्येदानीमविकारित्वमात्मन उपपादयति सत आत्मनश्चेति । धियः प्रत्ययेषु स्मृतिविपर्यासप्रमाणात्मकेषु मध्ये कःश्चिदपि प्रत्ययश्चैतन्येनाव्याप्तो नास्ति ततः समस्तबुद्धिवृत्तिसाक्षित्वादात्मा कूटस्थ एवेत्यर्थः ॥ ८३ ॥

 एवं “सर्वधियां नृत्तमि'त्यारभ्य सांख्यसिद्धान्तमवलम्ब्य बुद्धिरेव १२