पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


कारकात्म्यं प्रतिपादितमुपपतिभिः । अथाधुना श्रौतीं
प्रक्रियामवलम्ब्योच्यते ।
 अस्तु वा परिणामोऽस्य दृशेः कूटस्यरूपतः ।
 कल्पितोऽपि मृषेवासौ दण्डस्येवाप्सु वक्रता ॥ ४॥
 षट्सु भावविकारेष निषिद्धेष्वेवमात्मनि ।
 दोषः कश्चिदिहासतुं न शक्यस्तार्किकश्चभिः ॥ ५॥
प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्य कूटस्यत्वं
यक्तिभिरुच्यते ।
 प्रत्ययै तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः ।
 न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥ ७६ ॥
स्वसम्बद्धार्थ एव ।


परिणामिनी नात्मा स तु कूटस्थ इति दर्शितमिदानीमात्मनः परिणामाभ्युपगमेऽपि तस्य मायामयत्वान्न कश्चिद्दोष इति स्वसिद्धान्तमवलम्ब्याह एवं तावदिति । अस्तु वेति । आन्तरो बाह्यश्चात्मनः परिणामः कल्पितोऽप्यङ्गीकृतोऽप्यस्तु तथापि तस्यात्मनः कूटस्थरूपत्वादसावविद्यानिबन्धन एव न तु परमार्थतस्तस्मान्न कश्चिद्विरोध इत्यर्थः ॥ ८४ ॥

 एवमात्मनः षड़ावचिकाररहितत्वप्रतिपाद्नेन कर्तृत्वभोत्कृत्वादिवर्वानर्थसम्बन्धोऽपि तस्य निराकृतो द्रष्टव्य इत्याह षट्स्विति ॥ ८५ ॥

 प्रकृतमेवोपादाय श्रौतमेव भतमालम्ब्येत्यर्थः । सांख्यसिद्धान्तमेवावलम्ब्येति केचित् । प्रत्यर्थ त्विति । यथा प्रतिविषयं बुद्धयः स्वतो भिद्यन्ते तद्वद्वगतेश्चैतन्यस्य न भेदोऽस्ति चिदाकारत्वात्सर्वासां बुद्धिवृतीनां तस्माद्धटपटादिबुछद्युपाधिभेदपरामर्शमन्तरेण स्वतो भेदानवगमादुपाधिपरामर्शमन्तरेणाविभाव्यमानभेदस्येव नभसः स्वत एकत्वमेवं चैतन्यस्येत्यर्थः ॥ ८६ ॥

 बुद्धेः परिणामलक्षणधर्मसम्बन्धप्रतिपादनायोत्तरश्लोक इत्याह स्व-