पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


न चेयं स्वमनीषिकेति ग्राह्य । कुतः । श्रुत्यवष्टम्भात् ।
 शब्दाद्याकारनिभसा हानोपादानधर्मिणी ।
 भास्येत्याह श्रुतिर्टष्टिरात्मनोऽपरिणामिनः ॥ ९१ ॥
का विसौ श्रुतिः ।
 *विज्ञातारमरेकेन विजानीयाद्वि' यां पतिम्॥९२॥


ब्रह्मात्मैक्यापरोक्षेण मूलाशाने बाधिते दुःखित्वसम्भावनापि नास्त्येवान्यस्य तद्भतदुःखित्वस्य स्वगतदुःखित्वस्य च बाधितत्वादिति परेिहराति तन्नेति । यत्र यस्मिन्नात्मनि पूर्व स्वगतत्वेन भातमपि दुःखमिदानीमहं ब्रह्मास्मीति बुद्या बाधितं तत्र कथं पूर्वमन्यगतत्वेन भातमिदानीं मम स्यादित्यर्थः । यत्र प्राक्तनमितिपाठे यदन्यगतं दुःखित्वं प्रागप्यन्यस्मिन्नसदविद्याविज़नृम्भितं तत्कथमविद्यायां निवृत्तायामन्यस्मिन्नात्मनि वा स्यादित्यर्थः ॥ ९० ॥

 बुद्धिरेव परिणामिनी कूटस्थ आत्मेति योऽयमर्थः प्रतिपादितः स तु ताकैिरिव न केवलं तर्कावष्टम्भादस्माभिः प्रतिपाद्यते किन्तु श्रुत्यवष्टम्भादित्याह न चेयमिति । शब्दाद्याकारेति । श्रुतिर्डष्टिमन्तःकरणवृत्तिमाहेत्यन्वयः । कथमाहेत्यत आाह भास्येत्याहेति । शब्दाद्याकारनिर्भासवती हानोपादानधर्मिणी भूत्वात्मनः प्रकाश्येत्याचष्टे न तु तयात्मा प्रकाश्य इत्याहेत्यर्थः । यद्वा । दृष्टिद्विधा पारमार्थिक्यपारमार्थिकी चव । तत्र पारमार्थिकी दृष्टिरात्मनः स्वरूपमिल्याचष्टे । यान्या शब्दाद्याकारनिर्भासवती जन्मविनाशवती च दृष्टिः सा स्वरूपभूतया दृष्टया भास्येत्याह न तु तया स्वरूपभूता दृष्टिर्भास्येत्याहेत्यर्थः ॥ ९१ ॥

 अर्थमुपवण्र्य श्रुतिमवतारयति कात्वसाविति । *न दृष्टेर्दष्टारं पश्येः”

  • विझातारमरे केन विजानीयादि'ति च वाक्यद्वयमत्र प्रमाणमित्यर्थः ॥ ९२ ॥