पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
द्वितीयोऽध्यायः ।


यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो
जात्यन्धा इवानुकम्पनीया इत्याह ।
 तदेतदवयं ब्रह्म निर्विकारं कुबुद्धिभिः ।
 जात्यन्धगजदृष्टयेव कोटिशः परिकल्प्यते ॥ ९३ ॥
प्रमाणोपपन्नस्यार्थस्यासम्भावनातदनुकम्पनीयावसिद्धिः । तदेतदाह ।
 यद्यविशेषणं दृष्टं नात्मनस्तदनन्वयात् ।
 स्वस्य कुम्भादिवतस्मादात्मा स्यानिर्विशेषणः ॥ ९४ ॥
अतश्रवात्मनो भेदासंस्पशों भेदस्य मिथ्यास्वाभाव्यादत
अाह ।


 एवं श्रुतिस्मृतिविद्वत्प्रत्यक्षानुमानादीनां सम्भवादविश्वासो न वेदान्तसिद्धान्ते करणीय इत्यभिप्रेत्याह यस्मादिति । जात्यन्धगजदृष्टयेवेति । यथा जाल्यन्धाः स्वस्वस्पर्शगृहीतहस्तपादाद्यवयवेष्वयं गजोऽयं गज इति तत्र तत्रावयवेषु गजभावं कल्पयन्ति तद्वत्स्वस्वदुस्तर्कदूषितबुद्धिभिश्धार्वाकाचैस्तकभासदृष्टप्रकारेण कूटस्थमद्वितीयं ब्रह्माप्यन्यथा कल्प्यत इत्यर्थः ॥ ९३ ॥

 न्यायेन स्वसिद्धान्तव्यवस्थापका कथं शोच्याः स्युरित्याशङ्कय श्रुतिन्यायाभ्यां निर्णीतस्यार्थस्य तकभासैरसम्भवकरणाच्छोच्यत्वमित्याह प्रमाणोपपन्नस्यार्थस्येति । श्रुतिन्यायाभ्यां निर्णीतमर्थमाह तदेतदाहेति । यथा घटाकाशः करकाकाश इत्यत्राकाशविशेषणीभूतघटादिभिरनन्वयादाकाशस्य निविशेषत्वमेवं घटो भातीलयादौ भानविशेषणीभूतघटादीनां भानैक्याभावाद्भानस्वभावस्यात्मनो निर्विशेषत्वं सिद्वमित्यर्थः ॥ ९४ ॥

 आत्मनो भेदाभासासंस्पर्श हेत्वन्तरमाह अवगत्यात्मन इति । यद्वा । विशेषणानामात्मासंस्पशित्वेऽप्यन्यत्वेन स्वरूपेण सम्भवोऽङ्गीकृत इति