पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
द्वितीयोऽध्यायः ।


रिक्तानामप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव किं तर्हि
स्वतःसिद्धानुदितानस्तमितकूटस्यात्मप्रज्ञानमात्रशरीरमतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव तदुपादानत्वात्तस्येतीममर्थ निवतुकाम आह ।
 ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् ।
 एवंधियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥ ९७ ॥
स्मासिङ्गमात्मनोऽप्रमेयत्वं नैव हि कार्य स्वकारणमतिलंध्यान्यत्रावकारक आस्पदमुपनिबझाति । अत आह ।
 व्यवधीयन्त एवामी बुद्धिदेहघटादयः ।
 आत्मत्वादात्मनः कन व्यवधानं मनागपि ॥ ९७ ॥


संसारस्य च प्रधानकार्यत्वेन तदाश्रयत्वं च सांख्याः स्वीकुर्वन्ति । वयं त्वात्मन्यध्यस्तानिर्वचनीयाज्ञानवितृम्भिततया तदाश्रयः संसारः प्रत्यगात्मनि परिकल्पित इत्यभ्युपगच्छामः । तस्मान्न साम्यमित्यर्थः । यद्धा । अनुदितानस्तमितवृकूटस्थात्मप्रज्ञानमात्रशरीरप्रतिबिम्वितश्चासावविचाईरितसिद्धात्मानवबोधाश्रयश्धेति विग्रहः । ऋते ज्ञानमिति । जानातीति ज्ञानै. द्रष्टा तं विना न सन्ति न प्रतीयन्ते चाहङ्कारादयोऽथर्थास्तान्विनापि द्रष्टास्ति प्रतीयते च तस्मादर्थानां सत्ताप्रतीत्योर्निल्यसापेक्षत्वात्तेभ्यः स्वयंज्योतिःस्वरूपं निरपेक्षसिद्धिदकमात्मानं घटद्रष्टारं घटादिवानुमानतो विविच्याद्धिवित्तं कुर्यात्ततश्च दृश्यप्रपञ्चादात्मनि निकृष्टे सति प्रपऽञ्चस्य स्वातन्त्र्येण सिद्धयसम्भवादात्माज्ञानोपादानत्वेन तदाश्रयत्वमथर्थात्सिध्यतीत्यर्थः ॥ ९७ ॥

 एतेनात्मनोऽप्रमेयत्वमपि साधितं भवतीत्याह यस्मादिति । व्यवधीयन्त इति । बुद्धिसिद्धेरात्मचैतन्याभासोद्यापेक्षत्वात्तदनपक्षस्वतःस्ति-