पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
द्वितीयोऽध्यायः ।

एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोलौकिकरज़सपाँध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इ
 अभ्रयान्नं यथा मोहाच्छशभृत्यध्यवस्यति ।
 सुखित्वादीन्धियो धमस्तद्वदात्मनि मन्यते ॥ १०१ ॥
 दग्धृत्वं च यथा वहेरयसो मन्यते कुधीः ।
 चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥ १०२ ॥
सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्मन्यनुपनिपतितोऽविद्योत्सङ्गवत्र्येव न परमात्मव्यपाश्रयो
ऽस्याश्रयाविद्यायाः सर्वानर्थहेतोः कुतो निवृतिरिति चेतदाह ।
 दुःखराशेवैिचित्रस्य सेयं भ्रान्तिश्चिरन्तनी ।
 मूलं संसारवृक्षस्य तदाधस्तत्त्वदर्शनात् ॥ १०३ ॥


 एवं व्यतिरेवकं प्रदश्र्य, तदग्रहनिबन्धनोऽध्यासः प्रदइर्यत इत्याह एवमेतयोरिति । अभ्रयानमिति ॥ १०१ ॥

 एवमात्मन्यनात्मधर्माध्यासमभिधायानात्मन्यात्मधर्माध्यासं सदृष्टान्तमाह दग्धृत्वमिति ॥ १०२ ॥

 उत्तरश्लोकपूर्वपादत्रयेण पूर्वोक्तार्थोऽनूद्यत इति तात्पर्यमाह सर्व एवायमित्यारभ्य न परमात्मव्यपाश्रय इत्यन्तेन । अविद्योत्सङ्गवती । आधिद्याश्रय इत्यर्थः । इदानीं चतुर्थपाद्व्यावत्यं शङ्कामाह अस्याश्चेति। श्लोकमवतारयति तदाहेति । चिरन्तनी भ्रान्तिरविद्या सा मूलमत एवाश्रयस्तस्याश्धाद्वैतसाक्षात्कारान्निवृत्तिरित्यर्थः । नन्वद्वैतसाक्षात्कारस्याविद्यानिवर्तकत्वं कापि न दृश्यत इति शङ्कित्वाधिष्ठानसाक्षात्कारस्याध्यासबाधकस्य लोके दृष्टत्वादत्राप्यनुमेयमित्याह तद्दाधस्तत्वदर्शनादिति ॥ १०३ ॥