पृष्ठम्:न्यायमकरन्दः.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १० १ मू०-यतु यद् यथाप्रतिभासत’इत्याद्यभिहितं तदंशाभ्युपगम यत्पुनर् ‘इदन्तामात्रापवाधादपि एव, वाधोपपत्तौ न तस्य रजतगोचरतोचिता गौरवात’ इति , तदप्यसारं, कल्पनायां हेि गौरवं दोषो, नचेह रजताप वाधः कल्प्य, इदं रजतामिति प्रतिपन्नरजतानुवादेन नेति तदपवाधात्मनो वाधानुभवस्य स्वयं सैविदितत्वाद्, उपपादितश्चायमर्थः प्रागेवेति न पुनः प्रपञ्च्यते, एतेन ‘प्रतिषिद्वेदकारास्पद्भावमर्थादान्तरज्ञानाकारम वतिष्ठते' इत्यपास्तम् । योपि अतिव्यवहितस्यापरोक्षतानुपपत्तेरनिदन्त यैव बहिरवस्थानप्रतिषेधः, सोप्यनुकूल एवास्माकम् । यदपि ‘अवश्याश्रयणीयत्वादपरोक्षसंविदैक्यस्ये,तितत्प्रा गुक्तन्यायपरास्त, नचान्यथाऽपराक्षतानुपपातः, बाह्यता वत्तदुपपत्तेः, | टी०-हेतुरित्यर्थे , नन्वत्रापि कल्प्यते तत्राह “नचेह' इति, विनिगमनकारणाभावदिदन्तामात्रापवाश्र एव किन्न स्पादिति न वाच्य तन्मात्रम्यापवाधे रजतस्यान्तरतयावशाषादह रजतमितिः प्रत्ययप्रसङ्गादिति भाव । “अनुकूलएवास्माकम्” इति-देशान्तरे सत्त्वस्यास्मा भिः प्रतिषेधादित्यर्थः । प्रागुक्तन्यायपरास्तम् -बहिष्टवदसंविदाकारत्वेपि इतेि