पृष्ठम्:न्यायमकरन्दः.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ न्यायमकरन्दे मू०-अथ तत्राप्युभयाक्षिविरहश्चेद्न्धलक्षणं कस्मात्पुनः काणोप्यन्धो न स्याद् ।। अथ नास्त्यत्र लौकिकप्रयोग इति बृयाद्, अहो नु खल्वयं महानुभावो लोकप्रयोगमेव प्रमाणी कुरुते, त कि नानामनिजनसाधारणमपि कुण्डमगस्त्यकुण्डमेि त्याख्यायमानम् इन्दीवरादिसाधारणे ॐ च नीराभेि जनने तामरसमेव नीरजाद्धं नाभिजानाति । यदि चायं लोकप्रयोगश्रद्धाजडस्तस्तु नामैकैकेक्ष णविरहावच्छिन्न एवोभयेक्षणविरहो लक्षणान्तरमन्धेपि, अथात्राप्येकैकप्रकारवैलक्षण्यावच्छिन्नोभयप्रकारवैल क्षण्यं लक्षणमाश्रीयते तन्नातिप्रसङ्गाऽप्रसङ्गावित्यभिधीये टी०-यदि तदेच लक्षण तदा काणस्याप्यन्धता स्यादेवेति परिहरति

  • अथ तत्रापि ?” इति,

गूढाभिसन्धिरुत्तरमाह- “अहो नु खलु” इति । लोकप्र योगस्य प्रमाणत्वे को दोष इत्यस्राह -- * तत्किन्नाना ?” इति,। तथापि काणेऽन्धशब्दप्रयोगाभावस्य कः परिहार इति तत्राह “यदि च' इति, । अतिप्रसङ्गः=अतिव्वाप्तिः, अप्रसङ्ग*=अव्याप्तिः,

  • इन्दीवर झ= नीलीपलम्, तामरसम् = पटूझम्, ।