पृष्ठम्:न्यायमकरन्दः.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ मू०-नप्रसङ्गालाघवतर्कसाहाय्याद्नाद्येव तदनुमातव्यम् , । अत्र प्रयोगः–विवादपद्म्—अनाद्यनिर्वाच्यो पादानं विपक्षे वाधकोपपत्तौ सत्यां कार्यत्वाद्, यद्य थोक्तसाध्यं न भवति न तद्यथोक्तसाधनं यथोभयवा द्यविवादास्पदै वस्तु, । यत्तद्नाद्यनिर्वाच्यं रजताद्युपादानं सैवास्माकमविद्या सिद्धान्ती रजताद्युपादानतयैव स्वप्रमाणप्रसिद्धेति न रजतादेस्तदुपादानतायामपि विवदितव्यं, । तदेवमुन्नीतया रीत्या सद्सद्वैलक्षण्येप्यनिर्वाच्यल क्षणे न का वन दोषकलेति सिद्धम्, । अपरे पुनर्वाधगोचरभावमनिर्वाच्यंलक्षणमाचक्षते न्यायमकरन्दे ८ टी०-रणपरम्परायामनवस्थागौरवं च स्यादित्यर्थः । विवादपद्म् ' इति । अत्राचाष्टद्रव्यव्यतिरिक्तद्रव्याि तत्ववदप्रसिद्धविशेषणता परिहरणीया, सामान्यतोदृष्टानुमानेन कारणस्य प्रैसिद्धत्वाद्, वाधकैश्च सदसदूरूपतानिषेधाद्, अपरथा तथा तत्रापि ते दुष्परिहरा स्यादित्यवगन्तव्यं । विपक्षे वाधकोप पत्तौ=अनुपपद्यमानसदसदुपादानत्वे सति, घटादावात्मनिच व्य भिचारनिवारणार्थ क्रमेण विशेषणद्वयं, * । तथाप्यविद्योपादानसिद्धिः कथमिति तत्राह- “ यत्तद् ;

  • घटादीनां सत्यपि काय्यरवेऽनाद्यनिर्वाच्यमात्रीपादानत्वाभावात्तत्र व्यभिचारवा.

रणाय अनुपपद्यमानसदस्मदुपानत्व सतौति विशेषणदलम्, एतावत्युन्ने व्यभिचार ब्रह्मणि इति तवारणाय कार्यत्वादिति विशेष्यदलम् इत्यर्थ., ।